________________
२४६
काव्यादर्श .
सा भवेटुभयच्छन्ना यस्यामुभयगोपनम् । सङ्कीर्णा नाम सा यस्यां नानालक्षणसङ्करः॥१०५॥ एताः षोड़श निर्दिष्टाः पूर्वाचार्यैः प्रहेलिकाः । टुष्टप्रहेलिकाश्चान्यास्तैरधौताश्चतुर्दश ॥ १०६ ॥ दोषानपरिसङ्ख्ये यान् मन्यमाना वयं पुनः । साध्वीरेवाभिधास्थामस्ता टुष्टा यास्त्वलक्षणाः १०७
भावः। यस्याम् आश्रितम् आधेयं व्यक्तं स्फुटम् आश्रयस्य आधारस्य तु गोपनं सा एकच्छन्ना नाम ॥ १०४ ॥
सेति । यस्याम् उभयस्य आधेयस्य आधारस्य च गोषनं सा उभयच्छन्ना नाम भवेत् उभयोरपि निभृतत्वात्, यस्यां मानालक्षणानाम् उत्तानां प्रहेलिकाभेदकलक्षणानां सङ्करः साहित्येनावस्थितिः सा सङ्कीर्णा नाम ॥ १०५ ॥
एता इति। एताः समागतप्रभृतयः षोड़श प्रहेलिकाः पूर्वाचार्यः निर्दिष्टा: प्रदुष्टत्वेन कथिता इत्यर्थः, तैः पूर्वाचाखैरेव अन्याः चतुर्दश दुष्टाः प्रहेलिकाः च्युताक्षरादिकाः अधीताः पठिताः सदोषत्वेन कीर्त्तिता इत्यर्थः ॥ १० ॥
यदिच दुष्टाः प्रहेलिकाः पूर्वाचार्यैरुक्तास्तथाप्यस्माकं न ताखभिरुचिरित्याह दोषानिति। वयं पुन: अपरिसंख्येयान् बहन् दोषान् मन्यमानाः जानन्तः सन्तः साध्वौरव उत्कृष्टा एव निर्दोषा एव प्रहेलिकाः अभिधास्यामः उदाहरिष्यामः । यास्तु अलक्षणाः पूर्वोक्तलक्षणानन्तर्भूताः ता: दुष्टाः सदोषाः, तासामुदाहरणे न मम प्रयास इति भावः ॥ १०७ ॥