________________
तृतीयः परिच्छेदः ।
न मयागोरसाभिज्ञं चेतः, कस्मात् प्रकुप्यसि । अस्थानरुदितैरेभिरलमालोहितेक्षणे ! ॥ १०८ ॥ कुब्जामासेवमानस्य यथा ते वर्द्धते रतिः । नैवं निर्विशतो नारोरम र स्त्रीविडम्बिनीः ॥ १०८॥ दण्डे चुम्बति पद्मिन्या हंसः कर्कशकण्टके ।
२४७
अत्र समागतामुदाहरति नेति । हे आलोहितेक्षणे ! आरक्तनयने ! कोपादिति भावः, मया ममेत्यर्थः पष्ठप्रर्थे तृतीया । चेतः गोरसस्य दुग्धादे: अभिनं रसनं न, दुग्धादिकं मया न हृतमित्यर्थः, कस्मात् प्रकुप्यसि, एभिः अस्थानरुदितैः अकारणरोदनैः अलम् इति सहजोऽर्थः संवृतिकारक : गूढ़ार्थस्तु मे चेतः आगसः अपराधस्य नायिकान्तरसङ्गरूपस्य रसस्य प्रमोदस्य अभिज्ञं न नाहम् अन्यां कामये कथं तवेदृशो मान इति अत्र मे आगोरसाभिन्नमिति : सन्धिसूत्रेण एकारस्य अयादेशेन मयागोरसाभिन्नमिति निष्पन्नत्वात् प्रकृतार्थस्य संवरणम् । काञ्चित् गोपीं प्रति श्रीकृष्णस्य जनसमाजे उक्तिरियम् ॥ १०८ ॥
वञ्चितामुदाहरति कुनामिति । कुलां भुग्नपृष्ठां कामपि नारीम् आसेवमानस्य उपभुञ्जानस्य ते तव यथा रतिः सन्तोषः वर्धते, अमरस्त्रोविडम्बिनीः सुरकामिनीसदृशौः अन्याः नारीः निर्विशतः उपभुञ्जानस्य एवं रतिः न वर्द्धते इति सहजोऽर्थः गूढार्थस्तु कुजां कान्यकुजगनरीं तत्त्रत्यनारीं वेत्यादिः । श्रत्र कुलशब्दो भुग्नपृष्ठनायमेिव प्रसिद्धः अन्यत्र तु नेत्यप्रसिद्धार्थस्य प्रतिपादनम् । कान्यकुबनगीं वा तत्रत्यनारीं प्रति अनुरक्तजने उक्तिरियम् ॥ १०८ ॥