________________
२४८
काव्यादर्श
मुखं वल्गुरवं कुर्वस्तुण्डेनाङ्गानि घट्टयन् ॥ ११०॥ खातयः कनि ! काले ते स्फातयः स्फावलावः। चन्द्र साक्षाभवन्त्यत्र वायवो मम धारिणः ॥१११॥ अबोद्याने मया दृष्टा वल्लरी पञ्चपल्लवा। पल्लवे पल्लवे ताम्रा यस्यां कुसुममञ्जरी ॥ ११२ ॥
व्युत्क्रान्तामुदाहरति दण्डे इति। हंस: कर्कशकण्टके पद्मिन्या दण्डे नाले अङ्गानि घट्टयन् वल्गुरवं मनोज नादं कुर्वन् पद्मिन्या मुखं चुम्बतौत्यन्वयः । अत्रान्वयबोधे प्रासत्तेर्व्यतिक्रमः ॥ ११० ॥
प्रमुषितां दर्शयति खातय इति। हे कनि ! कुमारि ! कन्या कनौ कुमारी चेति हेमचन्द्रः। ते तव काल्यते क्षिप्यते इति कालः पादः तस्मिन् कल प्रेरणे इत्यस्य घनन्तस्य रूपं स्फातयः स्फाः वृद्धिः तस्य अतिः गतिः यत्र ते स्फीता इत्यर्थः बहव इति यावत् अत्सातत्यगतावित्यस्य किप्प्रत्ययान्तरस्य रूपम्। खातयः खम् आकाशं तस्यायं गुणः खः खशब्दादिदमर्थे ष्णः । अतिर्गतिः। खस्य अति: येषु ते नूपुरादयोऽलङ्काराः इत्यर्थः। स्फावलाव: स्फा स्पोतताम् अर्हन्तीति स्फार्हाः प्रभूताः वलाव: वलानात् चलनात् जाता: ध्वनय इत्यर्थः ततश्च स्फार्हा वलावः येषां तथोक्ताः भवन्तौति शेषः, चन्दति आबादयति इति चन्द्रे तस्मिन् नूपुराद्यलङ्गते सिन्नितवति तव पादे साक्षात् प्रत्यक्षीकत इत्यर्थः मम वायवः प्राणाः धारिणः सुस्थिरा भवन्ति। अत्र अप्रसिद्धैः बहुभिः पदैः प्रकृतार्थस्य संवरणात् प्रमोषणम् ॥ १११ ॥
समानरूपां दर्शयति । अत्रेति अत्र उद्याने मया पञ्च