________________
तृतीयः परिच्छेदः। २४८ सुराः सुरालये स्वैरं भ्रमन्ति दशनार्चिषा । मज्जन्त दूव मत्तास्ते सौरे सरसि सम्प्रति॥११३॥ नासिक्यमध्या परितश्चतुर्व विभूषिता। अस्ति काचित् पुरी, यस्यामष्टवर्णाह्वया नृपाः११४ वल्लवा वल्लरी लता दृष्टा, यस्यां कुसुममञ्जरी पल्लवे पल्लवे प्रतिपल्लवमित्यर्थः। ताम्रा रक्ता। अत्र नायिका काचित् उद्यानत्वेन अध्यारोपिता तस्या बाहुः बल्लरीत्वेन, अङ्गुलयः पल्लवत्वेन, नखाच कुसुममञ्जरीत्वेन। तेषाञ्च तानत्वं रक्तागुलिप्रभयेति बोध्यम्। अत्र पदानां गौणार्थारोपितत्वम् ॥११२॥
परुषां दर्शयति सुरा इति। सुराः शोभना राः शब्दो गौतध्वनिरिति यावत् येषां ते रै शब्दे इत्यस्य क्विबन्तस्य रूपम्। शोभनं गायन्तः इत्यर्थः सुरापा इति कर्तृपदमूह्यम् । तथा दशनार्चिषा हास्येन विवृतास्यतया दन्तकिरणनीपलक्षिताः सन्तः सम्प्रति सौरे सुरामये सरसि मज्जन्तः अतएव मत्ता इव सुरालये शुण्डि कालये खैरं भ्रमन्ति। सुरा इति पदं देवतावाचकमेव अनुशासनबलात् सुखरगायके प्रयुक्तम् इति पारुष्यम् ॥ ११३॥ ___ संख्यातामुदाहरति नासिक्यमध्येति । नासिक्यः नासिकायां भवः अकार इत्यर्थः स मध्ये यस्याः सा मध्यस्थजकारा इत्यर्थः तथा परितः उभयतः चतुर्मिः वर्ग: विभूषिता विरचिता आदी हो वौँ अन्ते च हौ मध्ये प्रकार एवंरूपा इति यावत् काचित् पुरौ नगरी काञ्चौत्यर्थः अस्ति, यस्यां नृपाः राजानः अष्टवर्णावयाः अष्टाभिर्वर्ग: निबद्धः आह्वयः पाख्या येषां तादृशाः पुण्डका इति ख्याता इति प्रसिद्धिः । पुण्डक