________________
१८०
काव्यादर्श
प्रावृषण्यैर्जलधरैरम्बरं दुर्दिनायते । रागेन पुनराक्रान्त जायते जगतां मनः ॥३३५॥ तनुमध्य पृथुशोणि रक्तौष्ठमसितेक्षणम् । नतनाभि वपुः स्त्रीणां कं न हन्त्युन्नतस्तनम्॥३३६ मृणालबाहु रम्भोरु पद्मोत्पलमुखेक्षणम् । अपि ते रूपमम्माकं तन्वि ! तापाय कल्पते ॥३३७
प्रावृषण्यै रिति। प्रायः वार्षिकैः जलधरैः अम्बरम् पाकाशं दुर्दिनायते आच्छव श्यामलमित्यर्थः भवति, जगतां मनः पुनः रागेण अनुरागण लौहित्येन च आक्रान्त जायते । अत्र श्यामलत्वलौहित्ययोरेकजलधरसम्भवत्वरूपसंसर्गकीर्तनं विरोधः, तस्य श्रेषेण प्रशमनम्। अनेन च प्रस्तुतस्य वर्षासमयस्य वैशिष्ट्यं प्रतीयते ॥ ३३५ ॥
तनुमध्यमिति । स्त्रीणां तनुमध्यं पृथुश्रोणि विशालनितम्ब रतौष्ठम् असितेक्षणं कृष्णनयनं नतनाभि गभौरनाभि तथा • उन्नतस्तनं वपुः कं जनं न हन्ति न तापयति अपितु सर्वमेवे. त्यर्थः । अत्र तनुत्वपृथुत्वयोः रक्तवासितत्वयोः नतत्वोबतत्वयोर्गुणयोर्विरोधेन प्रस्तुतानां स्त्रीणां वैचित्रां प्रतीयते, पाश्रयभेदाच तेषां विरोधपरिहारः ॥ ३३६ ॥ __मृणालेति। हे तन्वि! ते रूपं मृणालवत् शीतलौ बाइ यस्य तत्, रम्भे इव ऊरू यस्य तत्, पद्ममिव उत्पले इव मुखम्
क्षणे च यस्य तादृशमपि अस्माकं तापाय कल्पते। प्रव पूर्वोक्त उपमितिगर्भबहुब्रीही शीतलत्वादिकं गुणः तस्य च तापक्रियया विरोधः । राणाले एव बाइ यस्य इत्यादिरूपक