________________
१७८
हितीयः परिच्छेदः । विरुद्धानां पदार्थानां यत्र संसर्गदर्शनम् । । विशेषदशनायैव स विरोधः स्मृतो यथा ॥३३३॥ कूजितं राजहंसानां बईते मदमञ्जुलम् । क्षीयते च मयूराणां रुतमुत्क्रान्तसौष्ठवम् ॥३३४॥ स्तुततड़िहिलसितस्य समकक्षतया वर्णनेन निन्दाप्रतीयमाना तुल्ययोगिता, सा च धनारब्धानौति श्लेषानुप्राणिततया समधिकां चारुतां पुणातीति बोध्यम् ॥ ३३२ ॥ ___विरोध लक्षयति विरुहानामिति। विशेषस्य प्रस्तुतगतो. स्कर्षस्य दर्शनाय प्रतिपादनाय एव विरुद्धानां परस्परविरो. धिनां पदार्थानां यत्र वैचित्र संसर्गदर्शनं सम्बन्धप्रतिपादन सामानाधिकरण्यकीर्तनमित्यर्थः सः विरोधः स्मृतः। यथेति उदाहरणार्थम् । तथाच प्रस्तुतोत्कर्षप्रतिपत्तये प्रापाततः विरुद्धत्व न प्रतीयमानानां पदार्थानां सामानाधिकरखपतिपादनरूपं वैचित्रा विरोध इति निष्कर्षः । स च जात्यादिभिन तेरिति चतुर्विधः गुणादिभिर्गुणस्येति त्रिविधः, क्रियाद्रव्याभ्यां क्रियाया इति हिविधः, द्रव्यस्य द्रव्येणेति एकविध इति मिलित्वा दशविधो बोहव्यम् इति ॥ ३३३ ।। - कूजितमिति । राजहंसानां मदमचुलं मदमनोहरं कुजितं बईते वृद्धि गच्छतौति, मयूराणाञ्च उत्क्रान्तं सौष्ठवं मनोहारित्व यस्मात् तादृशं मत् क्षीयते च। अत्र एकस्मिवेव जिते रुते च शब्दरूपे कर्तरि विरुयोरपि हचिक्षययोः संसर्गदर्शनेन विरोधः सम्बन्धिभेदेन च तत्प्रशमनम् अनेन । प्रस्तुतस्य शरत्कालस्य एकजातीययोरपि बलाबलकारित्वेन वैभिब्य प्रतीयते इति ॥ ३३४ ॥