________________
१७९
काव्यादर्श
यमः कुवेरो वरुणः सहस्राक्षो भवानपि। विधयनन्यविषयां लोकपाल इति श्रुतिम्॥३३१॥ सङ्गतानि मृगाक्षीणां तडिहिलसितानि च । क्षणहयं न तिष्ठन्ति धनारब्धान्यपि स्वयम् ॥३३२॥
__ तुल्ययोगिता। चितगुणोत्कृष्ट रिति बहुत्वमविवक्षितं हाभ्यामेकेन वा समो. करणेऽपि पस्या: सद्भावादिति बोध्यम् । दीपके वाक्यान्तरीयपदस्य अनुषङ्गादिना वाक्यान्तरार्थोहीपकत्वम् इह तु स्तुतिमिन्दार्थसमीकरणमित्यनयोर्भेदः। उपमायां वाच्यार्थस्य व्यङ्ग्यायस्य वा साम्यप्रतीतिः शाब्दी इह तु सर्वेषां समकक्षतयां शाब्दबोधविषयत्वात् पर्यवसाने सादृश्यप्रतीतिरित्यनयोर्भेदः । तथाच विवक्षितगुणशालित्वेन अप्रस्तुतैः सह प्रस्तुतस्य समकचतया तादृम्म णवत्त्वकीर्तनेन स्तुतिनिन्दा वा तुल्ययोगितेति निष्कर्षः ॥ ३३० ॥
तत्र स्तुतावुदाहरति यम इति। यमः कुवेरः वरुणः सहमाक्षः इन्द्रः तथा भवान् अनन्यविषयाम् अनन्यसतां लोकपाल इति श्रुतिम् प्राख्यां विभ्रति। अत्र लोकपालत्वरूपो गुणः प्रस्तुते रात्रि विवक्षितः, तेन च गुणेन उत्कृष्ट : यमादिभिः सह समकक्षतया कीर्तनेन स्तुतिरूपा तुल्ययोगिता ॥ ३३१॥
निन्दायामुदाहरति सङ्गतानौति। मृगाक्षीणां सङ्गतानि सङ्गमाः तडिहिलसितानि च स्वयं घनारब्धानि धनं निविडं गाढ़ यथा तथा अन्यत्र धर्मेधैरारब्धानि अपि क्षणहयं न तिष्ठन्ति हणमावस्थायित्वात्तेषामिति भावः । अव क्षणस्थायिस्वरूपो गुणो वर्णनीये मृगाक्षीसङ्गमे विवक्षितः, तेन च अप्र