________________
द्वितीयः परिच्छ ेदः ।
f
एकचक्रो रथो यन्ता विकलो विषमा हयाः । आक्रामत्येव तेजखी तथाप्यर्को नभस्तलम् ॥३२८॥ सैषा हेतुविशेषोक्तिस्तेजस्वीतिविशेषणात् । अयमेव क्रमोऽन्येषां भेदानामपि कल्पने ॥ ३२६ ॥ विशेषोक्तिचक्रम् |
१७७
विवचितगुणोत्कृष्टैर्यत्समीकृत्य कस्यचित् । कीर्त्तनं स्तुतिनिन्दार्थं सा मता तुल्ययोगिता३३०
हेतुविशेषोक्तिं दर्शयति एकचक्र इति । रथः एकचक्रः, यन्ता सारथिः विकलः अङ्गहौन: अनरुत्वादिति भाव: हयाः अश्वाः विषमा: अयुग्माः सप्तसंख्यकत्वादिति भावः, तथापि अर्कः सूर्यः नभस्तलम् श्राक्रामति एव यतः सः तेजस्वीत्यन्वयः । अवापि रथादीनां द्रव्याणां वैकल्यप्रतिपादनरूपविशेषोक्तिस्तेजस्वित्वरूप हेतुकथनेन समधिकं वैचित्रामादधातीति हेत्वलङ्कारानुप्राणिता इति बोध्यम् ॥ ३२८ ॥
सैषेति । तेजखौति विशेषणात् हेतुगर्भादिति भावः सा एषा विशेषोक्तिः हेतुविशेषोक्तिः सहेतुका इत्यर्थः, अन्येषामपि भेदानां विशेषाणां कल्पने अयमेव क्रमः नियमः यथा हेत्वलवारसद्भावेनास्या भेदः तथान्येषामपि अलङ्काराणां सद्भावेनेति
भावः ॥ ३२८ ॥
तुल्ययोगितां निरूपयति विवक्षितेति । विवक्षिताः प्रस्तुतगतत्वेन इष्टा ये गुणाः तैरुत्कृष्टेः विख्यातः अप्रस्तुतैः समौ कृत्य तुल्यपचौक्कृत्य कस्यचित् प्रस्तुतस्य स्तुतिनिन्दार्थं स्तुत्यर्थं निन्दार्थं वा कीर्त्तनं सा तुल्ययोगिता मता इत्यन्वयः । विव