SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ द्वितीयः परिच्छदः । उद्यानमारुतोद्धूताश्च तचम्प्रकरेणवः । उदश्रयन्ति पान्थानामस्पृशन्तोऽपि लोचने ॥ ३३८ ॥ कृष्णार्जुनानुरक्तापि दृष्टिः कर्णावलम्बिनी । याति विश्वसनीयत्वं कस्य ते कलभाषिणि । ३३६ इत्यनेकप्रकारोऽयमलङ्कारः प्रतीयते । विरोधचक्रम् । समासे तु मृणालत्वरम्भात्वादिभिर्जातिभिस्तापक्रिययोः विरोधः । वक्तुर्विरहित्वेन च तस्य परिहारः ॥ ३३७ ॥ १८१ उद्यानेति। उद्यानमारुतेन उपवनवायुना उडूताः चूतचम्पकानां रेणवः परागाः पान्यानां पथिकानां लोचने नेवे अस्पृशन्तोऽपि उदश्रयन्ति उद्गतवाष्ये कुर्वन्ति विरहित्वादिति भावः । अत्र स्पर्शनाभावेऽपि उदश्रयणक्रियेति विरोधः तत्परिहारश्च परागाणामुद्दीपकत्वादिति ॥ ३३८ ॥ कृष्णेति । हे कलभाषिणि मधुरवचने ! ते दृष्टिः कृष्णार्जुनानुरक्ता अपि कर्णावलम्बिनी कस्य विश्वसनीयत्वं याति, न कोऽपि विश्वसितीत्यर्थः । श्रव कृष्णार्जुनयोरनुरक्तिः कर्णावलम्बनमिति क्रिययोरापाततः प्रतीयमानोऽपि विरोधः श्लेषेण शाम्यति तद् यथा, कृष्णा श्यामला अर्जुना धवला अनु पश्चाद्भागे प्रान्ते इत्यर्थः रक्ता कर्णावलम्बिनी श्राकर्णविश्रान्तेति च ॥ ३३८ ॥ इतौति । इति एवंप्रकारेण अयम् अलङ्कारः विरोध इत्यर्थः अनेकप्रकारः बहुविधः प्रतीयते । प्रतीयते इत्यत्र प्रतिशोभते इत्यपि पाठः । १६ 1
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy