SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ काव्यादयें अप्रस्तुतप्रशंसा स्यादप्रक्रान्तेषु या स्तुतिः ॥ ३४० ॥ मुखं जीवन्ति हरिणा वनेष्वपरसेविनः । अन्नैरयत्नसुलभैस्तृणदर्भाङ्कुरादिभिः ॥ ३४१ ॥ सेयमप्रस्तुतैवाव मृगवृत्तिः प्रशस्यते । राजानुवर्त्तनक्लेशनिर्विमेन मनखिना ॥ ३४२ ॥ अप्रस्तुतप्रशंसा । यदि निन्दन्निव स्तौति व्याजस्तुतिरसौ स्मृता । ११ इदानीम् अप्रस्तुतप्रशंसां लचयति अप्रस्तुतेति । अप्रक्रान्तेषु अप्रस्तुतेषु, षष्ठयर्थे सप्तमी बोध्या, बहुवचनमविवक्षितं द्दयोरेकस्य वा अप्रस्तुतत्वऽपि अस्याः सम्भवात् । या स्तुति: प्रस्तुतस्य निन्दार्थमित्यध्याहार्यम् । तथाच, अप्रस्तुतस्तवेन प्रस्तुतस्य निन्दा सूचनमप्रस्तुतप्रशंसेति ॥ ३४० ॥ अप्रस्तुतप्रशंसां दर्शयति सुखमित्यादि । श्रपरसेविन: परसेवानभिज्ञा इत्यर्थः हरिणाः वनेषु प्रयत्न सुलभैः अनायासलभ्यैरित्यर्थः तृणदर्भाङ्कुरादिभिः अन्नैः सुखं जीवन्ति । प्रभुसेवाविरक्तस्य भृत्यस्योक्तिरियम् । अव राजानुवर्त्तने राजसेवायां यः क्ल ेशः तेन निर्विसेन प्राप्तनिर्वेदेन केनचित् मनविना प्रशस्तमनसा इयम् अप्रस्तुता सा मृगवृत्तिः प्रशस्यते इति अप्रस्तुतप्रशंसा अप्रस्तुतस्य मृगस्य स्तुत्या स्वस्य निन्दा - सूचनात् । एवकारेण अप्रस्तुत प्रस्तुतयोरुभयोः प्रशंसायां नायमलङ्कार इति सूचितम् ॥ ३४९ ॥ ३४२ ॥ सम्प्रति व्याजस्तुतिं निर्दिशति यदोति । यदति यदि - त्यर्थे, निन्दन् इव यत् स्तौति असौ व्याजस्तुतिः स्मृताः । अव
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy