________________
हितीया परिच्छेदः । ४३ दोषाभासा गुणा एवं लभन्ते यव सन्निधिम् ३४३ तापसेनापि रामेण जितेयं भूतधारिणी। खया राज्ञापि सैवेयं जिता मा भून्मदस्तव॥३४४५ दोषा इव आभास्यन्ते आपाततः प्रतौयन्ते इति दोषाभासाः गुणा एव वस्तुतः अत्र सनिधिः लभन्ते गुणस्वरूपेणैव परिगमतीत्यर्थः। निन्दनिव स्तोतीत्यत्र स्तुवनिव निन्दतीत्यपि प्रत्ययविपरिणामेनान्वेतव्यं वैचित्रासाम्यात् वैचित्रयस्यैवालशारत्वादिति बोध्यम् । तथाच, व्याजेन निन्दाव्याजेन स्तुतिः स्तुतिव्याजेन च निन्दा व्याजस्तुतिरिति निष्कर्षः। उक्तञ्च प्रकाशकारेण, व्याजस्तुतिर्मुखे निन्दा स्तुतिर्वा रूढिरन्यथेति। उदाहृतञ्च तेनैव। स्तुत्या निन्दायां यथा, हे हे लाजितबोधिसत्त्व ! वचसां किं विस्तरैस्तोयधे! नास्ति त्वत्सदृशः परः परहिताधाने गृहीतव्रतः । वृष्थत्पान्यजनोपकारघटनावैमुख्य ! लब्ध्वा यशो भारस्थोहहने करोषि कृपया साहायकं यन्मरोरिति। अत्र समुद्रस्य स्तुतिव्याजेन निन्दाप्रतिपादनं चारुतातिशयं दर्शयति ॥ ३४३ ॥ ___ व्याजस्तुतिमुदाहरति तापसेनेति। रामेण परशुरामिण तापसेनापि जयसाधनसामग्रौरहितेनापौति भावः, इयं भूतधारिणौ पृथ्वी जिता, त्वया राज्ञाऽपि प्रभूतजयसाधनसामग्रीमताऽपि सैव पृथ्वी न त्वतिरिक्ता जिता अतः तव मदः गर्वः मा भूत्। अत्र प्रस्तुतस्य राज्ञः आपातत: निन्दा प्रतीयत एव परं साक्षाद् भगवदंशावतारेण परशुरामण महादेवप्रसादलब्धपरशुना या पृथ्वी जिता, त्वया मानवेनापि सा. जितेति पर्यवसानात् महती स्तुतिर्गम्यत इति ॥ ३४४. ॥ ..