SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ द्वितीयः परिच्छेदः । गुरोः शासनमवेतुं न शशाक स राघवः । यो रावणशिरम्छदकार्यभारेऽप्यविक्लवः ॥ ३०१ । रत्नभित्तिषु संक्रान्तैः प्रतिविम्बशतैवतः । जातो लङ्केश्वरः कृच्छ्रादाञ्जनेयेन तत्त्वतः ॥३०२॥ पूर्ववाशयमाहात्मामवाभ्युदयगौरवम् । सुव्यञ्जितमिति प्रोतमुदात्तद्वयमप्यदः ॥ ३०३ ॥ उदात्तम् । तमते प्रस्तुतस्य अङ्गत्वेन महतां चरित्रवर्णनमपि उदात्तालकार इति बोध्यम् ॥ ३०॥ प्राशयमहत्त्वे उदाहरति गुरोरिति। यः रावणस्य शिर छेदः कायं तस्य भारः तस्मिबपि अविलवः अव्याकुलः, स राघवः गुरोः पितुः शासनं राज्यत्यागपूर्वकवनगमनादेशम् प्रत्येतुम् अतिक्रमितुं न शशाक। अत्र रावणबधरूपासाध्यसाधनक्षमस्य तादृशगुरुनिदेशवर्त्तित्वेन अलौकिकं माहात्मा प्रतीयते इत्युदात्तत्वम् ॥ ३०१ ॥ _ विभूतिमहत्त्वे उदाहरति। रत्नभित्तिष्विति । आमनेयेन पचनासुतेन हनुमता वच्छात् अतिकष्टेन बहुपर्यालोचनया इत्यर्थः रबभित्तिषु संक्रान्तः प्रतिफलितः प्रतिविम्बानां शतैः वृत: लझेखरः रावणः तत्त्वतः ज्ञात: ईदृशैवर्यशालो नास्तौति अयमेव लङ्गेश्वर इति विदित इत्यर्थः । अत्र लखरस्य तादृशैश्वर्यमहत्त्वकीर्तनमेव उदात्तालङ्कार इति ॥३०२॥ .. : विष्यमुपसंहरति पूर्ववेति। पूर्वत गुरोरित्युदाहरणे
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy