________________
काव्याद”
तत्साधनसमापत्तिर्या तदाहुः समाहितम् ॥२६॥ मानमस्या निराकतुं पादयोर्मे पतिष्यतः । उपकाराय दिष्ट्यैतदुदौर्ण घनगर्जितम् ॥ २६६ ॥ आशयस्य विभूतेर्वा यन्महत्त्वमनुत्तमम् । उदात्तं नाम तं प्राहुरलङ्कारं मनीषिणः ॥३०॥
पारभमाणस्य कत्तुमुद्युक्तस्य दैववशात् अकस्मात् पुनः तस्य * साधनस्य समाधानस्य या समापत्तिः संयोगः तत् समाहितम् माहुः । समाधानरूपत्वात् अन्वर्थसंज्ञेयमिति। दैववशादिति तु न नियमपरं बुद्धिपूर्वककारणान्तरालम्बनेन कार्यसमाधानऽपि अस्य सद्भावात् । तदुक्त भोजराजेन, कार्यारम्भे सहायाप्तिर्दैवाद् देवाकते च या। आकस्मिको बुद्धिपूर्वोभयो वा तत् समाहितम् इति ॥ २८८ ॥
समाहितमुदाहरति मानमिति। अस्याः मानिन्याः मानं निराकत्तु पादयोः पतिष्यतः मे मम उपकाराय दिट्या देवेन एतत् घनगर्जितम् उदौर्णम् । अत्र मानभङ्गाय पादपतनप्रहत्तस्य दैवादुदोर्णेन घनगर्जितेन तस्यातीवोहीपकत्वात् मलशन तत्समाधानमिति समाहितमलङ्कारः ॥ २८८ ॥
उदात्तं निरूपयति आशयस्येति। आशयस्य अभिप्रायस्य विभूतेः सम्पत्तेः वा यत् अनुत्तमम् अलौकिकं महत्त्वम् प्राधिक्य, मनीषिणः तम् उदात्तं नाम अलङ्कारं प्राहुः । तथाच, प्रस्तुतस्य उदाराशयत्ववर्णनेन लोकातिशयसम्पहर्णनेन च यद् वैचित्रा स एव उदात्तालङ्कार इति निष्कर्षः। केचित् तु, यहापि प्रस्तुतस्याङ्ग महतां चरितं भवेदिति बाहुः ।