________________
हितीयः परिच्छेदः। १५३ दशत्यसौ परभृतः सहकारस्य मञ्जरीम् । तमहं वारयिष्यामि युवाभ्यां खैरमास्यताम्॥२६६॥ सङ्गमय्य सखौं यूना सङ्केते तद्रतोत्सवम् । निवर्तयितुमिच्छन्त्या कयाप्यपसृतं ततः ॥२६॥
इति पयायोक्तम् । किञ्चिदारभमाणस्य कायं दैववशात् पुनः ।
अर्थं साक्षात् वाचकशब्देन अनाख्याय अकथयित्वा तस्यैव इष्टार्थस्य सिद्धये प्रतिपत्तये यत् प्रकारान्तरण भङ्गिविशेषण आख्यानं व्यञ्जनया द्योतनं तत् पायोक्तम् इष्यते। समानार्थकशब्दान्तरस्यैव पर्यायत्वात् अन्धर्थसंज्ञेयमिति बोध्यम् ॥ २८५॥
पर्यायोक्तमुदाहरति दशतीति। असौ परभृतः कोकिल: सहकारस्य कुञ्जवहिस्थितस्येति शेषः मञ्जरी दशति, अहं तं निवारयिष्यामि युवाभ्यां खैरं स्वच्छन्दम् आस्यतां स्थ यतामिति कान्तकामिन्योः सुरतोत्सवस्य व्याघातो मा भूदिति विविच्य सख्यास्ततोऽपसरणस्यौचित्ये इतोऽहं गमिष्यामीति वाचकपदेनाभिधाने वैचित्रवातिशयस्याभावो जायते इति परभृतवारणव्याजेन तदपसरणं व्यक्तीकतमिति पयायोनाम् ॥ २८६ ॥
। सङ्गमय्येति । सङ्केते सङ्केतस्थावे सखीं यूना सह सङ्गमय तयोः रतोमवं निवर्तयितुं सम्पादयितुमिच्छन्त्या कयापि सख्या ततः अपमृतमित्यन्वयः ॥ २८७ ॥
समाहितं निरूपयति किञ्चिदिति। किचित् कार्यम्