________________
१६२
काव्यादर्श अपकर्ताहमनौति हदि ते मास्म भूद् भयम् । : -विमुखेषु न मे खड्गः प्रहत्तुं जातु वाञ्छति २६३
एवमुक्ता परो युद्धे निरुद्दो दर्पशालिना। पुंसा केनापि तज्नेयमूर्जखीत्येवमादिकम्।।२६४॥ अर्थमिष्टमनाख्याय साक्षात् तस्यैव सिद्धये । यत् प्रकारान्तराख्यानं पायोक्तं तदिष्यते ॥२६५
रसेषु शृङ्गारादिषु प्रायत्ता स्मृता। तथाच, रसव्याकग्राम्यत्वदोषाभावसहकतालङ्कारादिमत्त्व माधुर्यगुणत्वं रसवदलकारस्तु रस एवेति भेदः ॥ २८२ ॥
ऊर्जस्वालङ्कारमुदाहरति अपकर्तेति । अहं ते अपकर्ता शत्रुरस्मि इति हेतोः ते भयं मास्म मूत् न भवतु, मे मम खडः विमुखेषु प्रहत्तुं जातु कदाचिदपि न वाञ्छति । तथाचोक्त हन्यादित्यनुवृत्तौ मनुना। यथा, नायुधव्यसनप्राप्तं नातं नातिपरिक्षतम्। न भीतं न परावृत्तं सतां धर्ममनुस्मरविति । युद्धे पलायनपरं शर्बु प्रति कस्यचित् वीरस्योक्तिः। अत्र गर्वरूपो व्यभिचारिभाव: स्थायिभावादपि उत्साहादुद्रिक्त इति ऊर्जखिनामालङ्कारः । यस्य तु तादृशोट्रेकाभावः तत्र वोरो रस एव रसवदलङ्कारतया परिणमतीति बोध्यम् ॥ २८ ॥ ___ एवमुवति। दर्पशालिना अहङ्कारवता केनापि पुसा एवम् उमरूपं वचनम् उक्ला युद्धे परः शत्रुः निरुतः । तस्मात् इत्येवमादिक रसान्तरेऽपि तादृशो गर्वः ऊर्जस्त्रीत्यर्थः ॥ २८४ ॥
पर्यायोक्त लक्षयति अर्थमिति। इष्टम् अभिलषितम्