________________
द्वितीयः परिदः।
इदं मघोनः कुलिशं धारासन्निहितानलम् । मारणं यस्य दैत्यस्त्रीगर्भपाताय कल्पते ॥ २६१ ॥ वाक्यस्याग्राम्यता योनिर्माधर्म्य दर्शितो रसः। इह त्वष्टरसायत्ता रसवत्ता स्मृता गिराम् ॥२६२॥
इति रसपच्चक्रम् । भावो विस्मयः । तल्लक्षणं यथा, विविधेषु पदार्थेषु लोकसीमातिवर्त्तिषु। विमारश्चेतसो यस्तु स विस्मय उदाहृत इति । अलौकिकनन्दनशाखिभिरालम्बनविभावः तेषाञ्च तत्तगुणेरुद्दीपनविभावैः अन्यैश्च प्रतीयमानैरनुभावैः सञ्चारिभिश्च परिपुष्टः अद्भुतरमतया पर्यवस्यतीति ॥ २८० ॥
भयानकरम मुदाहरति इदमिति। इदं मघोन इन्द्रस्य कुलिशं वज्र धारासु सन्निहित: अनलः यस्य तादृशं, यस्य स्मरणं दैत्यस्त्रीणाम् असुरकामिनीनां गर्भपाताय कल्पते प्रभवति। अत्र दैत्यस्त्रीणां भयमेव स्थायिभावः । तल्लक्षणं यथा, रौद्रशक्त्या तु जनितं चित्तवैक्लव्यदं भयमिति। मघोना आलम्बनविभावेन तादृशकुलिशेन उद्दीपनविभावेन गर्मपातेन च अनुभावेन अन्यैश्च प्रतीयमानैः तत्तत्कालिकचित्तव्यापारैः परिपुष्ट: भयानकरसत्वं प्राप्नोतौति ॥ २८१ ॥ .. ननु माधुर्यनिरूपणे मधुरं रसवदित्युक्त रसवत्त्वस्य माधुर्यगुणत्वेन अभिहितम् अत्र तु अलङ्कारत्वं कथं सङ्गच्छंत इत्याह वाक्यस्येति । माधुर्ये माधुर्यनिरूपणे वाक्यस्य अग्राम्यता ग्राम्यत्वदोषाभाव एव योनिः कारणं यस्य तादृशः रमः दर्शितः अंग्राम्यताया एव रसत्वेन उपचारतः कोर्सममिति भावः । इह तु गिरा वाचा रसवत्ता रसवदलङ्कारत्वम् अष्टसु