________________
हितीयः परिच्छेदः। . १.३३ स्नातुं पातुं विसान्यत्तुं करिणो जलगाहनम् । वहरनिष्क्यायेति कविनोत्प्रेक्ष्य वर्ण्यते ॥२२३॥ कर्णस्य भूषणमिदं ममायतिविरोधिनः । इति कर्णोत्पलं प्रायस्तव दृष्ट्या विलङ्घयते ॥२२४॥ अपाङ्ग-भागपातिन्या दृष्टरंशुभिरुत्पलम् । स्पश्यते वा न वेत्येवं कविनोत्प्रेक्ष्य वर्ण्यते॥२२५॥ लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नमः । इतीदमपि भूयिष्ठमुत्प्रेक्षालक्षणान्वितम् ॥२२६ ।।
लक्षणं घटयति स्नातुमिति। करिणः स्नातुं पातु विसानि च अत्तुं भक्षयितुं जलगाहनं कविना तस्य वैरनिष्कृयाय इति उत्प्रेक्ष्य सम्भाव्य वर्ण्यते ॥ २२३ ॥ - अचेतनगतामुत्प्रेक्षामुदाहरति कर्णस्येत्यादि। तव दृष्ट्या मम आयतिः देयं तस्य विरोधिनः बाधकस्य कर्णस्य इदं भूषणम् इति कर्णोत्पलं विलयते प्रायः निजांशुभिः ताद्यते इव, प्राय इति उत्प्रेक्षाव्यञ्जकम् । अत्र अपाङ्गभागपातिन्याः आकर्णायताया दृष्टेः अंशुभिः उत्पलं स्पृश्यते वा न वा इति असबपि विषयश्चमत्कारजनकत्वेन कविना उत्प्रेक्ष्य सम्भाव्य वयते। उत्प्रेक्षाद्योतकेवादिप्रयोगाभावेऽपि क्वचित् प्रतीयमानोत्प्रेक्षा भवतीत्युक्तं दर्पणकारण उदाहृतञ्च तेनैव । यथा, तन्वयाः स्तनयुग्मेन मुखं न प्रकटीकृतम्। हाराय गुणिने स्थानं न दत्तमिति लज्जयेति। अत्र स्तनयोरचेतनखेन लज्जाया असम्भवात् लनयेवेत्युत्प्रेक्षा ॥ २२४ ॥ २५ ॥ लिम्पतीति । नोकाईमिदम्, असत्पुरुषसेवेव दृष्टिविफलता
१२