________________
काव्यादर्श कषाश्चिटुपमाभान्ति रिव शुखेह जायते। नोपमानं तिङन्तेनेत्यतिक्रम्याप्तभाषितम् ॥२२७॥ उपमानोपमेयत्वं तुल्यधर्मव्यपेक्षया । लिम्पतेस्तमसश्चासौ धर्मः कोऽत्र समीक्ष्यते॥२२८॥ गतेत्यपराई मृच्छकटिकनाटके वर्षावर्णनप्रकरणोक्तम् । तमः अन्धकारम् अङ्गानि शरीराणि लिम्पतीव, नभः आकाशम् अञ्जन वर्षतौव । इतीदमपि पद्याई भूयिष्ठं सम्यक् उत्प्रेक्षाया लक्षणेन अन्वितं युक्तम्। अत्र अचेतनस्य तमसः व्यापनरूपो धर्मः लेपनत्वेन तथा तादृशस्य तमसः सम्पातरूपो धर्मो नमःकर्तकाञ्जनवर्षणरूपत्वेन सम्भावित इति उभयत्रैव विषयस्यानुपादानम् ॥ २२६ ॥ __ मन्ये शङ्के इत्यादिपदप्रयोगे एवोत्प्रेक्षा इव प्रयोगेतूपमैवेति केषाञ्चिन्मतं दूषयति केषाञ्चिदिति । इह लिम्पतीति पो इवश्रुत्या इवशब्दप्रयोगेण तिङन्तेन उपमानं न इति प्राप्तानां प्रामाणिकानां सुधियां भाषितं वचनम् अतिक्रम्य अनादृत्य केषाञ्चित् अज्ञानामित्यर्थः उपमाभ्रान्ति: उपमालकार एवात्रेति भ्रमः जायते इत्यन्वयः । अयं भाव: उपमानस्य सिद्धत्व साध्यत्वञ्च उभयोर्भेदकम् । उपमायाम् उपमानस्य सिद्धत्वमावश्यकम् इह तु साध्यत्वम् । तथाच तिङन्तपदप्रतिपाद्यस्य लेपनस्य वर्षणस्य च साध्यत्वाबात्रीपमाशङ्केति। उताञ्च, सिद्दमेव समानार्थमुपमानं विधीयते। तिङन्तार्यन्तु माध्यत्वादुपमानं न जायते इति ॥ २२७ ॥
उपमाशङ्कानिराशाय युक्तिमपि दर्शयति उपमानोपमेय. त्वमिति। तुल्यधर्मस्व समानगुणादिरूपसाधारणधर्मस्य बपे