________________
२६८
काव्यादर्थे
सहकारस्य किसलयान्यार्द्राणोत्यधिकाचरम् ॥ १५७
कामेन बाबा निशिता विमुक्ता मृगेक्षणा खित्ययथागुरुत्वम् । स्मरस्य बाणा निशिताः पतन्ति वामेक्षणावित्ययथालघुत्वम् ॥ १५८ ॥ न संहितां विवचामीत्यसन्धानं पदेषु यत् । प्रथमे पादे अष्टाक्षरे वक्तव्ये सप्ताक्षराणौति एको वर्ण: न्यून इत्यर्थः। सहकारस्य आम्रस्य किसलयानि श्रार्द्राणि, इति अत्रापि तृतीये पादे अष्टाक्षरे वक्तव्ये नवाक्षराणीति एको वर्णोऽधिक इत्यर्थः ॥ १५७ ॥
गुरुलघुयथास्थितिमुदाहरति कामेनेति । कामेन मृगेक्षयासु निशिता बाणा विमुक्ताः, इत्यत्र अयथागुरुत्वम् । तथाच, अत्र पूर्वार्धे उपेन्द्रवजावृत्तम् उपेन्द्रवच्चा जतजास्ततो गाविति लक्षणात् ततश्च जगणे प्रथमं निवेश्ये का इति गुरुवर्णो निवेशितः जगणश्च जो गुरुमध्यगत इत्युक्तत्वात् आद्यन्तौ लघ मध्यवर्णो गुरुरित्येवं वर्णत्रयात्मक इति बोध्यम् । तथा, स्मरस्य निशिता बाणा वामेक्षणासु पतन्ति, इत्यत्र अयथालघुत्त्वम् । तथाच, उत्तराई इन्द्रवज्जावृत्तं स्यादिन्द्रवज्जा ततजास्ततोमाविति लक्षणात् ततश्च तगणे प्रथमं निवेश्ये स्मेति लघुवर्णो निवेशितः, तगणश्च अन्त्यलघुस्त इत्युक्तत्वात् प्रथमद्दितौयौ गुरू अन्त्यच लघुरित्येवं वर्णत्रयात्मक इति बोध्यम् । अन आदाविन्द्रवज्जा पश्चादुपेन्द्रवज्जा इत्येवमुपजातिच्छन्दसि वक्तव्ये नायं दूषणावसर इति ध्येयम् ॥ १५८ ॥
विसन्धिकं निर्दिशति नेति । संहितां वर्णयोर्मिलनरूपां