SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ काव्यादर्श इतिहासकथोद्भूतमितरहा सदाश्रयम् । चतुर्वर्गफलोपेतं चतुरोदात्तनायकम् ॥ १५ ॥ नगरार्णवशैलतुं चन्द्रार्कोदयवर्णनैः । उद्यानसलिलक्रीड़ामधुपानरतोत्सवैः ॥ १६ ॥ बन्धो यस्य स श्लोकसङ्घातः महाकाव्यं तस्य महाकाव्यस्य लक्षणं स्वरूपम् उच्यते प्राशीः शुभाशंसनं नमस्क्रिया नमस्कारः खापकर्षबोधकवचनं वापि अथवा वस्तुनः प्रकृतस्य तदंशस्य वा निर्देशः कथनं तस्य महाकाव्यस्य मुखम् आदि आशी:प्रभृतीनामन्यतमं प्रथमं वर्णनीयमिति निष्कर्षः । तत्र कौचकबधादावाशीः रघुवंशादौ नमस्कारः शिशुपालबधादौ वस्तुनिर्देश इति ॥ १४ ॥ . इतिहासेति। इतिहासानां रामायणभारतादीनां कथया उद्भूतं निबई भवेत् महाकाव्यमिति शेषः सर्वत्र वा अथवा सन् सत्यभूतः हत्तान्तः आश्रयो यस्य तादृशम् इतरत् रामायणमहाभारतादिव्यतिरिक्तमपि एतेन असत्यवृत्तं महाकाव्ये न वर्णनीयमिति प्रदर्शितम्। चतुणां धर्मार्थकाममोक्षाणां वर्गः चतुर्वर्गः स एव फलं तेन उपेतं युक्तम्। चतुरः कार्यकुशल: उदात्तः महान् नायकः प्रधानपुरुषः यस्मिन् तथाभूतम् । नायकलक्षणमुक्तं दर्पण यथा त्यागी कृती कुलीन: सुश्रीको रूपयौवनोत्साहौ। दक्षोऽनुरक्तलोकस्तेजोवैदग्धाशीलवान् नेता इति ॥ १५ ॥ केवलं नायकवर्णनेन कवीनां न चरितार्थता इतिहासादे: एव तज्ज्ञानस्य सिद्धत्वात् अतः नायकवर्णनमाश्रित्य तदानुषणिकनगरादिकमपि वर्णनीयं तथात्वे काव्यशोभाजननात्
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy