________________
प्रथमः परिच्छेदः ।
विप्रलम्भे विवाहेश्च कुमारोदयवर्णनैः । मन्त्रदूतप्रयाणाजिनायकाभ्युदयैरपि ॥ १७ ॥
अलङ्कृतमसंक्षिप्तं रसभावनिरन्तरम् । सर्गैरनतिविस्तीर्णैः श्रव्यवृत्तैः सुसन्धिभिः ॥ १८ ॥
श्रोतॄणामुन्मुखीकरणं स्यादित्याशयेनाह नगरेत्यादि । नगरं बहुसमृद्धजनाकीर्णः प्रदेश: अर्णवः समुद्रः शैलः पर्वतः चन्द्राकोंदयः चन्द्रसूर्य्ययोरुदयः उपलक्षणमेतत् अस्तमनमपि, एतेषां वर्णनैः उद्यानसलिलयोः क्रौड़ा मधुपानं रतोत्सव : सम्भोगशृङ्गारः तैः विप्रलम्भैः सम्भोगशृङ्गारात् पूर्ववर्त्तिभिः पूर्वरागप्रभृतिभिः चतुर्विधभावेः विवाहैः परिणयव्यापारः कुमारोदयस्य पुत्रोत्पत्तेर्वर्णनैः तथा मन्त्रः परामर्शः दूतप्रयाणम् आजि: युद्धं नायकस्य अभ्युदयः जयलाभः तैः अलङ्कृतं शोभितं नगरादयो महाकाव्ये वर्णनीया इत्यर्थः । सूर्येन्दुरजनोप्रदोषध्वान्तवासराः । प्रातर्मध्याह्नमृगया शैलत्तुं वनसागराः । सम्भोगविप्रलम्भौ च मुनिस्वर्गपुराध्वराः । रणप्रयाणोपयममन्त्रपुवोदयादयः । वर्णनीया यथायोगं साङ्गोपाना अमी इह ॥ १६ ॥ १७ ॥
उक्तन । सन्ध्या
असंक्षिप्तं संक्षेपेण न वर्णनौयं सविस्तरमित्यर्थः तथा सति महृदयहृदयङ्गमं भवतौति भावः । रसैः शृङ्गारादिभिः भावैः प्राधान्येनाभिव्यक्तैः व्यभिचारिभिः उद्दुद्दमात्रैः स्थायिभिः रत्यादिभिः तथा देवादिविषयकैः अनुरागैश्च निरन्तरं सङ्गुलं पूर्णम् इति यावत् । अनतिविस्तीर्णैः शास्त्रनियमिताष्टादिभिः तदुक्तमौशानसंहितायाम् । अष्टसर्गात्र तु न्यूनं विंशत्सर्गाच नाधिकम् । महाकाव्यं प्रयोक्तव्यं महापुरुषको र्त्तियुगिति ।