SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ १० काव्यादर्श सर्वत्र भिन्नवृत्तान्तरुपेतं लोकरञ्जकम् । काव्यं कल्पान्तरस्थायि जायेत सदलङ्कति ॥१६॥ न्यूनमप्यत्र यैः कश्चिदङ्गैः काव्यं न दुष्यति। यद्यपात्तेषु सम्पत्तिराराधयति तद्विदः ॥ २० ॥ एतच्च प्रायिकम् प्राधिक्यस्यापि तवैव कीर्तनात् यथा, नात्यन्तविस्तरः सर्गस्त्रिंशतो वा न चोनता। द्विशत्या नाधिक कार्यमेतत् पद्यस्य लक्षणमिति। अव्यवत्तैः दोषपरिहारेण गुणालङ्कारसंयोगेन च श्रुतिमुखावहपौरित्यर्थः । सुसन्धिभिः परस्परसापेक्षरित्यर्थः यच्च कैश्चित् “सन्धयो नाटकलक्षणोता मुखप्रतिमुखगर्भविमर्शनिर्वहणाख्याः पञ्च" इति व्याख्यातं तधान्तं महाकाव्यलक्षणे नाटकोयलक्षणयोगस्य असम्भवात् इति ॥ १८॥ - सर्वत्रेति। सर्वत्र भिवाः वृत्तान्ता येषु तैः सर्वेषु एव सर्गेषु वर्णनौयविषयाणां प्रमेदादिति भावः । अथवा भिवं पृथक्छन्दसा रचितं वृत्तं पद्यम् अन्ते येषां तैः प्रत्येकं सर्गान्ते प्रायशस्तथा दर्शनात् एकत्तमयैः पद्यैः अवसानेऽन्यत्तकैरिति वचनाच्च यहा भिवानि पृथक्छन्दोभिर्बद्धानि तैः अन्ताः रस्याः तादृशैः। तदुक्तं, नानावृत्तमय: क्वापि सर्गः कश्चन दृश्यत इति। उपेतं युक्तम्। सदलङ्कति सत्य: विद्यमानाः अथवा शोभनाः अलङ्कतयः अनुप्रासोपमादयः यस्मिन् तादृशं काव्यं लोकानां रञ्जकं सहृदयमनोहरं सत् कल्पान्तरस्थायि चिर. स्थायि चिरकौतिकरमिति भाव: जायेत भवेत् ॥ १८॥ 'इत्यं महाकाव्यलक्षणमुक्ता खण्डकाव्यमपि निरूपयति, न्यू नमिति। अत्र महाकाव्ये उक्तष्विति शेषः यैः कैश्चित् अङ्गैः
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy