________________
प्रथमः परिच्छेदः ।
गुणतः प्रागुपन्यस्य नायकं तेन विहिषाम् । निराकरणमित्येष मार्गः प्रकृतिसुन्दरः ॥ २१ ॥ वंशवीयश्रुतादीनि वर्णयित्वा रिपोरपि । तज्जयान्नायकोत्कर्षवर्णनञ्च धिनोति नः ॥ २२ ॥ अपादः पदसन्तानो गद्यमाख्यायिका कथा । . इति तस्य प्रभेदो हो तयोराख्यायिका किल ॥२३॥
न्यूनं होनमपि काव्यं न दुथति यदि उपात्तेषु वर्णितेषु विषयेषु सम्पत्तिः रचनामाधुयं तद्विदः काव्याभिज्ञान् आराधयति रसादिसद्भावेन प्रोणाति। तदुक्तं, नावर्णनं नगर्यादैर्दोषाय विदुषां मनः । यदि शैलतुं राधादेवर्णनेनैव तुष्यति ॥ इति यापात्तार्थसम्पत्तिरिति पाठे स एवार्थः ॥ २० ॥
सम्प्रति काव्ये नायकप्रतिनायकयोवर्णनप्रकारमाह, गुणत इति वंशेति द्वाभ्याम् । प्राक् प्रथमं नायकं गुणत: उपन्यस्य गुणवत्वेन कीर्तयित्वा तेन नायकेन विहिषां शत्रूणां प्रतिनायकानामित्यर्थः निराकरणं पराजयः, इत्येषः मार्गः वर्णनरीतिः प्रकृतिसुन्दरः स्वभावरम्यः यथा रामायणे, रामरावणयोगुणदोषान् वर्णयित्वा रावणबधवर्णनम् ॥ २१॥
रिपोः शत्रोरपि वंश: कोलोन्यं वौयं पराक्रमः श्रुतं शास्त्रज्ञानम् आदिना दयादाक्षिण्यादि यथायथमवगन्तव्यम् । एतानि वर्णयित्वा कीर्तयित्वा तज्जयात् तस्य रिपोः जयात् नायकस्य उत्कर्षवर्णनं नः अस्मान् धिनोति तोषयति । यथा किरावे दुर्योधनस्य प्रजारजनम् ॥ २२ ॥ - पद्यं निरूपयवाह अपाद इति । अपादः पादः छन्दोबद्धः