________________
काव्याद” नायकैनैव वाच्यान्या नायकेनेतरेण वा । खगुणाविष्क्रियादोषो नाव भूतार्थशंसिनः ॥२४॥ अपि त्वनियमो दृष्टस्तवाप्यन्यैरुदौरणात् । अन्यो वक्ता खयं वेति कोहग्वा भेदलक्षणम् ॥२५॥ नोकचतुर्थांशः तद्रहितः पदसन्तान: पदसमूहः गद्यं तस्य गद्यस्य हौ प्रभेदी आख्यायिका कथा च। तदुक्तं, कथायां सरसं वस्तु गरिव विनिर्मितम् । कचिदत्र भवेदार्या कचिहवापवक्रके। पादौ पचैनमस्कारः खलादेत्तकीर्तनम् ॥ इति। यथा कादम्बयादिः। आख्यायिका कथावत् स्यात् कवेवंशादिकीर्तनम् । अस्यामन्यकवीनाञ्च वृत्तं गद्यं क्वचित् क्वचित् ॥ इति। तयोर्मध्ये आख्यायिका नायकेनैव वाचा मायक एव अस्या वक्ता इत्यर्थः एवकारादन्यव्यवच्छेदः। उक्लञ्च, वृत्तमाख्यायते यस्यां नायकेन खचेष्टितम् इति। अन्या कथा नायकेन तदितरेण वा वाथा यथा कादम्बयां चन्द्रापौड़स्य नायकस्य मयाखेतया संलापः। ननु नायकस्य वक्तृत्वे तस्य स्वगुणाविष्करणं दोषायेति शङ्कां वारयवाह स्वगुणेति भूतार्थ शंसिन यथार्थवादिनः नायकस्य अत्र वक्तृत्वे खगुणाविष्कि या निजगुणख्यापनं दोषः न भवतीति शेषः । असत्यकथनस्यैव दोषत्वात् इति भावः ॥ २३ ॥ २४ ॥
पूर्वोक्तं प्राचीनमतं दूषयवाह, अपौति। अपितु किन्तु तवापि आख्यायिकायामपि अन्यैः नायकभिन्नैः उदौरणात् कथनात् नायकादन्येषामपि वक्तृत्वादिति यावत् अनियमः पूर्वमतेन विरोधः दृष्टः । कथायाञ्च अन्यः नायकभित्रः स्वयं नायकी वा वक्ता इति भेदलक्षणम् आख्यायिकाया भेदकरणं