________________
प्रथमः परिच्छेदः ।
त्रक्लञ्चापरवचञ्च सोच्छ्रासत्वञ्च भेदकम् । चिह्नमाख्यायिकायाश्चेत् प्रसङ्गेन कथाखपि ॥ २६ ॥ आय्यादिवत् प्रवेशः किं न वक्तापरवक्तयोः । भेदश्च दृष्टो लम्भादिरुच्छ्रासो वास्तु किं ततः ॥२७॥ वा कौदृक् अकिञ्चित्करमिति भावः । श्राख्यायिकाया वक्ता नायक: अस्थाच यदा स एव वक्ता तदानयोः अभेदत्वस्य दुर्वारत्वादित्यनुसन्धेयम् ॥ २५ ॥
अपरच भेदकरणं दूषयति वक्तमिति । वक्तम् अपरवकच्च छन्दसौ, तदुक्तं वक्त' नाद्यावसौ स्यातामब्धेर्योऽनुष्टुभि ख्यातमिति श्रयुजि ननरला गुरुः समे तदपरवक्कमिदं नजौ जरौ इति । वैतालीयं पुष्पिताग्राच्चे च्छन्त्य परवक्तकमिति च । उच्छासः कथांशव्यवच्छेदः श्राश्वासापरपर्य्यायः तदुक्त ं कथां - शानां व्यवच्छेद आश्वास इति कथ्यते । तसाहित्यच्च भेदकं कथाया इति शेषः । एतत् त्रयम् चाख्यायिकायाः चिह्नं लक्षणं चेत् कथासु अपि प्रसङ्गेन प्रस्तावक्रमेण आय्यादिवत् वक्वापरवक्त्रयोः छन्दसोः प्रवेशः किं न भवेत् इति शेषः । अपितु भवेदेव । उक्तञ्च कथालक्षणाधिकारे आर्य्याविक्कापवक्ताणां इन्दसा येन केनचिदिति । तस्मादुक्तभेदकरणं भ्रमविजृम्भितमेवेति भावः । लम्भः कथापरिच्छेदस्य संज्ञाभेद: आदिपदेन उल्लासादीनां ग्रहणं लम्भादि उच्छासो वा मेदच दृष्टः कुत्रचित् कथायां लग्भपदेन परिच्छेदः कृतः आख्यायिकायामुच्छासपदेन वा उल्लासपदेन कृत इत्यनयोर्भेदः वा अस्तु ततः किं संज्ञामात्त्रभेदो न किञ्चित्कर इत्यर्थः स्वरूपवैलण्यस्यैव भेदकत्वेन कीर्त्तनात् ॥ २६ ॥ २७ ॥
१३