________________
काव्यादमें
तत् कथाख्यायिकेत्येका जातिः संज्ञादयाङ्किता । अत्रैवान्तर्भविष्यन्ति शेषाश्चाख्यानजातयः ॥ २८ ॥ कन्याहरणसंग्रामविप्रलम्भोदयादयः । सर्गबन्धसमा एवं नैते वैशेषिका गुणाः ॥ २६ ॥
इदानीं स्वमतमाविष्करोति तदिति । तस्मात् कथा आख्यायिका च इति संज्ञाइयेन नामभ्याम् अङ्किता न तु खरूपत इति भावः । एका अभिवा जाति: उभयोरपि गद्यमयत्वात् इति भावः । श्रवैव कथाख्यायिकयोः इत्यर्थः शेषाः अवशिष्टाः आख्यानजातयः खण्डकथादयच अन्तर्भविष्यन्ति एतयोः प्रकारभेदा इति भावः । तदुक्तम् आग्नेये, आख्यायिका कथा खण्डकथा परिकथा तथा । कथालिकेति मन्यन्ते गद्यकाव्यञ्च पञ्चधा ॥ इति ॥ २८ ॥
१४
कथाख्यायिकयोर्भेदान्तरमपि दूषयति कन्येति । कन्याया हरणं युद्धादिना बलात् ग्रहणं राक्षसोद्दाह इत्यर्थः । तदुक्त ं, हत्वा छित्त्वा च भित्त्वा च क्रोशन्तीं रुदतीं गृहात् । प्रसह्य कन्याहरणं राक्षसो विधिरुच्यते ॥ इति । संग्रामो युद्धं विप्रलम्भः सम्भोगशृङ्गारस्य पूर्वभाव: स च पूर्वरागमानप्रवासकरु णात्मकश्चतुर्विध इति दर्पणकारः । उदयः सूर्य्यचन्द्रयोः अभ्युतिर्वा नायकस्य, आदिना उद्याननगरादयो गृह्यन्ते । एते गुणाः आख्यायिकाया इति शेषः यथा आख्यायिकामुपक्रम्य कन्याहरणसंग्रामविप्रलम्भोदयान्वितैति सर्गबन्धसमाः महाकाव्यसामान्या एव कथायां किमु वक्तव्यमिति भावः अतः एते वैशेषिका : भेदकाः धर्मा न । उक्तञ्च अयमेव हि भेदो भेदहेतुर्वा यद्दिरुधर्माध्यास इति ॥ २८ ॥