SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ प्रथमः परिच्छेदः । मुक्तकं कुलकं कोषः सङ्घात इति तादृशः । सर्गबन्धाङ्गरूपत्वादनुक्तः पद्यविस्तरः ॥ १३ ॥ सर्गबन्धो महाकाव्यमुच्यते तस्य लक्षणम् । आशौर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम् ॥ १४ ॥ विस्तार: निदर्शितः निरूपितः सा विद्या छन्दोज्ञानमित्यर्थः गम्भीरम् अगाधं दुर्गममित्यर्थः काव्यसागरं काव्यरूपमर्णवं तितीर्षूणां तरितुमिच्छूनां नौः तरणिस्वरूपा इत्यर्थः काव्यानां प्रायेण छन्दोबद्धतया तत्पाठार्थिभिः छन्दोज्ञाने अवश्यमेव यतितव्यमिति भावः ॥ १२ ॥ इदानीं महाकाव्यं निरूपयिष्यन् तदवान्तरभेदकथनस्य तदन्तः पातित्वादनुपयोगित्वं दर्शयति, मुक्तकमिति । अत्र इतिपदम् एवमर्थकम् । मुक्तकं श्लोकान्तरनिरपेक्षमेकमेव पद्यम् । तदुक्तम् अग्निपुराणे, मुक्तकं श्लोक. एवैकश्चमत्कारक्षमः सताम् इति । कुलकं पञ्चश्लोकात्मकं पद्यम् । तदुक्तं, दाभ्यान्तु युग्मकं ज्ञेयं त्रिभिः श्लोकैः विशेषकम् । चतुर्भिस्तु कलापं स्यात् पञ्चभिः कुलकं मतम् ॥ इति । कोषः अन्योन्यनिरपेक्षः पद्यसमूहः । उक्तञ्च, कोषः श्लोकसमूहस्तु स्यादन्योन्यानवेक्षक इति । सङ्घातः प्रत्येकपरिसमाप्तार्थकपद्यैः कथासमाप्तिः । तदुक्तं, यत्र कविरेकमर्थं वृत्तेनैकेन वर्णयति काव्ये 1 सङ्घातः स निगदितो वृन्दावनमेघदूतादिरिति एवं तादृशः तथाविधः युग्मकादिश्च पद्यविस्तरः पद्यानां विस्तारः सर्गबन्धस्य महाकाव्यस्य अङ्गरूपत्वात् अवयवस्वरूपत्वात् अनुक्तः न प्रदर्शित इत्यर्थः ग्रन्थविस्तारभिया इति भावः ॥ १३ ॥ सम्प्रति महाकाव्यं निरूपयति सर्गबन्ध इत्यानिना । सर्गेण
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy