________________
काव्यादरों
तैः शरीरञ्च काव्यानामलङ्काराश्च दर्शिताः । शरीरं तावदिष्टार्थव्यवच्छिन्ना पदावली ॥ १० ॥ गद्यं पद्यञ्च मिश्रञ्च तत् विधैव व्यवस्थितम् । पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्विधा ॥ ११ ॥ छन्दोविचित्यां सकलस्तत्प्रपञ्चो निदर्शितः । सा विद्या नौस्तितीर्षूणां गम्भौरं काव्यसागरम्॥१२॥
इदानीं प्राचीनसंवादनिर्देशपुरःसरं काव्यशरीरं निरूपयति तैरिति । तैः पूर्वपण्डितैः काव्यानां शरीरम् अलङ्काराश्च अलजियते एभिरिति व्युत्पत्त्या अलङ्काराः काव्यशरीरशोभका गुणालङ्कारादयश्च दर्शिताः । काव्यानामिति बहुत्वं प्रकारभेदविवक्षयोक्तमवगन्तव्यम् । किं तत्शरीरमित्याकाङ्गायां स्वमतमुद्दाटयति शरीरमिति तावच्छब्दो वाक्यालङ्कारार्थः । इष्टा: हृद्याः रसाद्यनुगमेन मनोहरा इत्यर्थः ये वाच्यलक्ष्यव्यङ्गभेदेन विविधा अर्थाः तैः व्यवच्छिन्ना विभूषिता पदावली पदसमष्टिः काव्यस्य शरोरमिति वर्त्तुलार्थः ॥ १० ॥
इदानीं काव्यभेदान् दर्शयति गद्यमिति । तत् काव्यं faधैव त्रिप्रकारेणैव व्यवस्थितं, सिद्धान्तितं प्राचीनैरिति शेषः । गद्यं छन्दोरहितं पद्यं छन्दोबद्धं मिश्रं गद्यपद्योभयात्मकम् इत्यर्थः । तत्र पद्यं चतुचरणनिबद्धं तदपि वृत्तं जातिरिति द्विविधम् अक्षरसंख्यया निवद्धं वृत्तं मात्रया निबद्धा जातिरिति ज्ञेयम् ॥ ११ ॥
छन्दांसि विचीयन्ते विज्ञायन्ते अनयेति छन्दोविचित्यां पिङ्गलादिक्कतच्छन्दोग्रन्थे तेषां वृत्तजातिप्रभृतीनां प्रपञ्चः