________________
प्रथमः परिच्छेदः। ५ गुणदोषान् अशास्त्रज्ञः कथं विभजते जनः । किमन्धस्याधिकारोऽस्ति रूपभेदोपलब्धिषु ॥८॥ अत: प्रजानां व्युत्पत्तिमभिसन्धाय सूरयः । वाचां विचिवमार्गाणां निबबन्धुः क्रियाविधिम्॥६॥
सुदर्शनमपि एकेन एकाङ्गवर्त्तिना क्षुद्रेणापि खित्रेण धवलरोगण दुर्भगं पृणितं स्यात् अत्र दृष्टान्तालङ्कारः। तदुक्त साहित्यदर्पण, दृष्टान्तस्तु सधर्मस्य वस्तुनः प्रतिविम्बनम् इति ॥ ७॥
अशास्त्रज्ञ: अविहान् जनः गुणदोषान् काव्यस्य उपादेयत्वव्यञ्जका धर्मा गुणाः तान् हेयत्वव्यञ्जका धर्मा दोषाः तांश्च कथं विभजते विशेषेण बुध्यते नैवेत्यर्थः प्रोजःप्रसादादिगुणानां श्रुतिकट्टादिदोषाणाञ्च काव्यपाठश्रवणमात्रेण सामान्यतः परिज्ञानेऽपि शास्त्राविज्ञाने विशेषज्ञानासम्भवादिति भावः। तथाहि रूपाणां सौन्दयादीनां भेदोपलब्धिषु विशेषज्ञानेषु अन्धस्य अधिकारः शक्तिः किम् अस्ति नैवेत्यर्थः । अत्रापि दृष्टान्तालङ्कारः ॥ ८॥ ___ अतः कारणात् गुणदोषाणां विभागादेः शास्त्रगम्यत्वात् हेतोः सूरयः पूर्वपण्डिता: भरतादयः प्रजानां लोकानां व्युत्पत्तिं वाग्वैचित्राज्ञानम् अभिसन्धाय अभिप्रेत्य उद्दिश्य इत्यर्थः विचित्रमार्गाणां विचित्रा विविधा मार्गाः पन्थानः रौतयः गौड़ीप्रभृतयः यासां तथाभूतानां वाचां काव्यप्रबन्धानाम् इत्यर्थः क्रियाविधि रचनाविधानं निबबन्धुः चक्रुः इत्यर्थः काव्यग्रन्थान् रचयामासुः इति यावत् ॥ ८ ॥