________________
काव्यादरों
गौ!: कामदुधा सम्यक् प्रयुक्ता स्मय॑ते बुधैः । टुष्पयुक्ता पुनर्गोत्वं प्रयोक्तु: सैव शंसति ॥ ६ ॥ तदल्पमपि नोपेक्ष्यं काव्ये दुष्टं कथञ्चन । स्थाहपुः सुन्दरमपि विवेणैकेन दुर्भगम् ॥ ७॥ रेकालङ्कारः। इदञ्च पुरात्तवर्णितानां यशःकीर्तनं प्रयोजनान्तरमनुसन्धेयम् ॥ ५ ॥ ___वाचामुपादेयत्वं सामान्येनोका वागविशेषस्य कविप्रणीतप्रबन्धस्य विशेषोपादेयत्वं कौतयवाह गौरिति। सम्यक् प्रयुक्ता गुणालङ्कारादिवत्वेन दोषराहित्येन सुनिबदा गौः वाक् खर्गेषु पवाग्वचदिङ नेबष्टणिभूजले। लक्ष्यदृष्ट्यां स्त्रियां पुंसि गौरित्यमरः । बुधैः विनिः सहृदयैः सुधीभिरित्यर्थः कामदुधा कामदोहिनी यथाभिलषितपूरणी गौः धेनुः मर्यते मन्यते । एकः शब्दः सुप्रयुक्तः सम्यक् प्रातः खर्गे लोके च कामधुक् भवति इति श्रुतेः। अपरच, धर्मार्थकाममोक्षेषु वैचक्षण्यं कलासु च। करोति कौतिं प्रौतिञ्च साधुकाव्यनिषेवणम् ॥ इति। पुनः किन्तु सा एव गौः दुष्प युक्ता सदोषत्वेन गुणालङ्कारादिराहित्येन च प्रयुक्ता निवडा सती प्रयोक्नुः प्रयोगं कुर्वतः कवेरिति यावत् गोत्व वृषत्वमन्नत्वमिति भावः शंसति सूचयति ॥ ६ ॥
तत् तस्मात् प्रयोजकस्य गोत्वख्यापनात् काव्ये अल्पमपि दुष्टं दोषः भावे लप्रत्ययः। कथञ्चन केनापि प्रकारेण न उपेशं न क्षन्तव्यं सर्वथा दोषः परित्याज्य इत्यर्थः । ननु गुणालहारादिसद्भावे सामान्यदोषण का क्षतिरिति चेत् तबाह स्यादिति । वपुः शरीरं सुन्दरमपि स्वभावतः गुणादिवत्तया वा