________________
प्रथम: परिच्छेदः ।
इदमन्वं तमःकृत्स्नं जायेत भुवनवयम् । यदि शब्दाह्वयं ज्योतिरासंसारं न दीप्यते ॥ ४ ॥ आदिराजयशोविम्बमादर्श प्राप्य वाङ्मयम् । तेषामसन्निधानेऽपि न स्वयं पश्य नश्यति ॥ ५॥
इदमिति । यदि शब्दः आह्वयः अभिधानं यस्य तत् शब्दनामकं वानयमित्यर्थः ज्योतिः तेज:प्रकाशकखरूपधर्मवलेन वानये तथालारोषः । प्रासंसारं जगत् अभिव्याप्य न दीप्यते न विराजते तदा इदं कृत्स्रं सर्व भुवनानां स्वर्गमर्त्यरसातलानां चयम् अन्धं तमः गाढ़ान्धकारव्याप्तमिति यावत् जायेत सूर्योदयाभावे इव वागभावे जगत् अन्धकारमयमेव स्यात् वाग्भिरेव सर्वेषां ज्ञानलाभादिति भावः । एतेन भस्य प्रयोजनं वाग्व्यवहाररूपमेव कथितम् । अभिधेयप्रयोजनयोश्च परस्परं प्राप्यज्ञापकत्वादिरूपः सम्बन्धः यथायथमवयन्तव्यः। एषाञ्च ग्रन्यादौ अवश्यवक्तव्यतोता यथा,-ज्ञातार्थ ज्ञातसम्बन्धं श्रोतुं श्रोता प्रवर्त्तते। ग्रन्थादौ तेन वताव्यः सम्बन्धः सप्रयोजनः ॥ इति ॥ ४॥ - इदानीं वाचामुपादेयत्वं दर्शयति, भादिराजेति। श्रादिराजानां मन्विक्ष्वाकुप्रभृतीनां यशोविम्ब कौर्तिरूपं प्रतिविम्बं कर्तृ वामयं कविगणनिबद्ध काव्यप्रबन्धरूपमादर्श दर्पणं प्राप्य . तेषाम् आदिराजानाम् असबिधानेऽपि असत्तायामपि न नश्यति न विलीयते इति खयं पश्य अवलोकयेति राजपुत्रं प्रत्युक्लिः । दर्पणे विम्बपतनं सबिहितानामेव इह तु वामयरूपे दर्पणे असब्रिहितानामपौति उपमेयाधिक्यवर्णनव्यति