SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ हितीयः परिच्छेदः । किन्तु वीज विकल्पानां पूर्वाधायें प्रदर्शितम् । तदेव परिसंस्कर्तुमयमस्मत्परिश्रमः ॥ २ ॥ काश्चिन्मार्गविभागार्थमुक्ताः प्रागप्यलविया । साधारणमलङ्कारजातमन्यत् प्रदर्श्यते ॥ ३ ॥ खभावाख्यानमुपमा रूपकं दोपकाती। पाक्षेपोऽर्थान्तरन्यासो व्यतिरेको विभावना ॥४॥ गुणालङ्कारपदार्थयोर्भेद इति ध्येयम् । ते च अलङ्काराः अद्यापि विकल्पान्ते विविधरूपेण उद्भाव्यन्ते कविभिरिति शेषः, अतः कः पण्डितः तान् कार्बेन साकल्येन वक्ष्यति निरूपयिष्यति न कोऽपि निरूपयितुं शक्ष्यतीत्यर्थः, उक्तिचित्रास्यैवालङ्कारत्मात् तस च कल्पनैकमूलत्वात् कल्पनायाश्च कदाप्यविरामात् इति भावः ॥ १॥ . किन्तु विकल्पानां विविधकल्पनानां वीजं मूलं सादृश्यम् उपमेत्यादिसामान्यलक्षणं पूर्वाचार्ये प्रदर्शितं निरूपितं यत् उपजीव्य नव्यानां वैचित्राभेदेन नाना कल्पना इति भावः । नदेव पूर्वाचार्यप्रदर्शितवीजीभूतम् अलङ्कारलक्षणम् इत्यर्थः परिसंस्कर्तुं सम्यक् स्फुटीकर्तुम् अयम् अस्माकं परिश्रमः प्रयासः ॥ २॥ ___ काश्चित् अलङ्गियाः अलङ्काराः गुल्यनुप्रासादयः मार्गविभागार्य रीतिविभेददर्शनार्थं प्रागपि पूर्वमेव उक्ताः, इदानी-" मन्यत् साधारण सामान्यं सर्वसम्मतमित्यर्थः अलङ्कारजातं प्रदर्श्यते निरूप्यते ॥ ३॥ अलङ्कारान् निर्दिशति खभावत्यादि। खभावाख्यानं
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy