________________
५६
काव्यादर्शे
द्वितीयः परिच्छेदः ।
काव्यशोभाकरान् धर्मानलङ्कारान् प्रचक्षते । ते चाद्यापि विकल्पान्ते कस्तान् कार्त्स्न्येन वक्ष्यति १ येषां तैः आलस्यरहितैः इत्यर्थः कीर्त्तिं कवित्वजनितयशः ईसुभिः जनैः इति शेषः श्रमात् परिश्रमेण अनिशं सरखतो खलु निश्चयेन उपास्या सेव्या, अवश्यमेव शास्त्रं परिशोलितव्यमिति भावः कथमित्याह कृश इति । कवित्वे काव्यकरणसामर्थ्ये कशे अल्पेऽपि कृतश्रमाः कृतशास्त्रपरिशीलन प्रयासा जनाः विदग्धगोष्ठीषु कविसमाजेषु विहर्तुम् ईशते प्रभवन्ति । अल्पस्यापि अस्य ज्ञाने करणे च ऐहिकामूत्रिकफलसिद्दिभवति, एकः शब्दः सुप्रयुक्तः सम्यक् ज्ञातः स्वर्गे लोके च कामधुग् भवतीति श्रुतेः ॥ १०५ ॥
इति श्रीजीवानन्दविद्यासागर भट्टाचाय्र्यविरचितायां काव्यादर्शटीकायां प्रथमः परिच्छेदः ।
परिच्छेदेऽस्मिन् अलङ्कारान् निरूपयिष्यन् प्रथमं तेषां सामान्यलक्षणं निरूपयति काव्यशोभाकरानिति । काव्यस्य पूर्वोक्तलचणस्य शोभा सौन्दर्य्यं तत्तद्विशेषकृतचमत्कारजनकवैचित्रामित्यर्थः तत्करान् तत्साधनानि धर्मान् गुणविशेषान् अलङ्कारान् प्रचक्षते वदन्ति कवय इति शेषः । यथा हारकुण्डलादयः शरीरं शोभयन्ति तथा अनुप्रासोपमादयः काव्यशरीरभूतौ शब्दार्थौ शोभयन्तीति भावः । पूर्वोक्तगुणास्तु काव्यस्यान्तः शोभाधायकाः अलङ्कारास्तु वाह्यशोभाकरा इति