SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ प्रथमः परिच्छदः। ५५ न विद्यते यद्यपि पूर्ववासना गुणानुबन्धि प्रतिभानमद्भुतम् । श्रुतेन यत्नेन च वागुपासिता ध्रुवं करोत्येव कमप्यनुग्रहम् ॥ १०४ ॥ तदस्ततन्द्ररनिशं सरस्वती श्रमादुपास्या खलु कीर्तिमीसुभिः । कृश कवित्वेऽपि जनाः कृतश्रमा विदग्धगोष्ठीषु विहर्तुमौशते ॥ १०५ ॥ इति आचार्य्यदण्डिनः कृती काव्यादर्श मार्ग विभागो नाम प्रथमः परिच्छेदः । जायते शक्तोर्वईतेऽभ्यासयोगतः । तस्य चारुत्वनिष्पत्ती व्युत्पत्तिस्तु गरीयसौ ॥ इति सर्वमनवद्यम् ॥ १०३ ॥ उक्तकारणानां सर्वेषामभावेऽपि यत्नवतां शास्त्रानुशीलनपराणां कथञ्चित् फलसिद्धिरित्याशयेनाह नेति। यद्यपि पूर्ववासना प्राक्तनसंस्कारः स्वाभाविको शक्तिरित्यर्थः तथा अद्भुतम् अलौकिकं गुणानुबन्धि वैचित्रवावहं प्रतिभानं सुचिक्कणा बुद्धिः न विद्यते, तथापि श्रुतेन शास्त्रानुशीलनेन काव्यज्ञोपदेशेन वा यत्नेन अभिनिवेशेन उपासिता सेविता वाक् ध्रुवं निश्चितं कमपि अनुग्रहं करोति एव अवश्यमेव काव्यनिर्माण किञ्चित् सामर्थ्य मातनोति इत्यर्थः । सम्यक् सामर्थ्य तु उक्तत्रितयमेव हेतुरिति न परस्परं विरोध इति ॥ १०४ ॥ उपसंहरति तदिति । तत् तस्मात् अस्ततन्द्रैः अस्ता तन्द्रा
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy