________________
५४
काव्यादर्श
इक्षुक्षौरगुड़ादीनां माधुर्यस्यान्तरं महत् । तथापि न तदाख्यातुं सरखत्यापि शक्यते ॥१०२॥ नैसर्गिको च प्रतिभा श्रुतञ्च बहु निर्मलम् । अमन्दश्चाभियोगोऽस्याःकारणं काव्यसम्पदः॥१०३॥ . उक्तमर्थं दृष्टान्तेन समर्थयति इविति। इक्षुक्षौरगुड़ादीनामपि माधुर्यास्त्र अन्तरं भेदः तथा महत् पतिविस्तरमित्यर्थः बथा सरखत्यापि किमु वक्तव्यमन्येषामिति भावः वाग्देव्यापि तत् पाख्यातुं कथयितुं न शक्यते । एवं काव्यमार्गाणां मधुरिम्णः प्रानन्त्यात् अनिर्वचनीयतया भेदहयमेव विशिष्य निरूपितमिति तात्पर्य्यार्थः ॥ १०२॥
इत्थं काव्यखरूपं निरूप्य तत्कारणमाह नैसर्गिकौति । नैसर्गिको स्वभावसिद्धा प्रतिभा स्फुरन्तौ मति: बहु नानाविधं निर्मलं विशवं श्रुतं शास्त्रज्ञानं लोकाचारादिजामञ्च तथा अमन्दः प्रगाढ़ः अभियोगः अभिनिवेशश्च एतत् त्रयम् अस्याः काव्यसम्पदः काव्यरूपायाः सम्पत्तेः कारणं हेतुः, कारणमिति एकवचननिर्देशेन समस्तस्यैव कारणता न तु प्रत्येकस्य इति सूचितम् । उक्तञ्च प्रकाशकारीण, शक्तिनिपुणता लोकशास्त्रकाव्याद्यवेक्षणात्। काव्यनशिक्षयाभ्यास इति हेतुस्तदुद्भवे ॥ इति वयः समुदिता न तु व्यस्ताः तस्य काव्यस्य उद्भवे निर्माण समुल्लासे च हेतु न तु हेतव इति। केचित् तु प्रतिभा एव काव्यकरणं व्युत्पत्तिस्तु तस्य चारुत्वे हेतुः, अभ्यासो वृद्धि हेतुश्च प्रतिभा च कचित् स्वतः प्रसरति कचित् वा देवानुग्रहात् भाविकवीनां बालानां सत्यामपि प्रतिभायां काव्यानुदयात् कालस्य तत्सहकारित्वमङ्गीकार्यमित्याहुः। उक्तञ्च, कवित्वं