________________
प्रथमः परिच्छ ेदः ।
तदेतत् काव्यसर्वखं समाधिर्नाम यो गुणः । कविसार्थः समग्रोऽपि तमेनमनुगच्छति ॥ १०० ॥ इति मार्गद्दयं भिन्नं तत्खरूपनिरूपणात् । तद्भेदास्तु न शक्यन्ते वक्तुं प्रतिकविस्थिताः ॥१०१॥
५.३
अन्तःपातात् अस्यापि गर्भिणौधर्मत्वस्य युक्तत्वात् वैचित्रयजनकत्वेन अतौवहृद्यत्वात् इति विवेचनीयम् ॥ ८८ ॥
उपसंहरति तदिति । तत् तस्मात् उक्तप्रकारेण अत ववैचित्त्रप्रावहत्वात् समाधिर्नाम यो गुणः एतत् काव्यस्य सर्वं स्वं धनं सारभूतमित्यर्थः समग्रः अपि सकलः कविसार्थः कविसम्प्रदायः गौड़ीयः वैदर्भीयो वा इत्यर्थः तं तथाभूतम् एनं समाधिम् अनुगच्छति एतदनुसारेण काव्ये प्रवर्त्तते इत्यर्थः । यदि च एतेषां गुणानां दशानां मध्ये केचित् तत्तद्दोषाभावरूपतया केचिच्च अलङ्कृतिरूपतया नव्यैः अनाहताः केवलं चय एव गुणा दर्शिताः यथा, माधुर्य्योजः प्रसादाख्यास्त्रयस्ते न पुनदेश इति तथापि प्राचां मतमनुसृत्य ग्रन्थक्कृतोक्ता इति अत्रध्येयम् ॥ १०० ॥
इत्थं गौड़वैदर्भयोर्भेदं वर्णयित्वा उपसंहरति इतौति । इति उक्तप्रकारेण तयोः गौड़वैदर्भयोः खरूपनिरूपणात् लक्षणकीर्त्तनात् मार्गद्दयम् उल्लिखितरौतिद्दयं भिन्नं परस्परविलक्षणम् । तद्भ ेदाः ताभ्यां मार्गाभ्यां भेदाः भिन्ना इत्यर्थः क्वदभिहितो भावो द्रव्यवत् प्रकाशते इति न्यायात् । लाटपाञ्चालादयः प्रतिकवि तत्तद्द शौयकविषु स्थिताः तु किन्तु ते वक्तुं न शक्यन्ते अतिविस्तारादिति भावः । अथवा तदाः तयोः गौड़वैदर्भयोः भेदाः अन्तर्गतविशेषा इत्यर्थः ॥ १०१ ॥