________________
५२
काव्यादर्थे
अचलाधित्यकोत्सङ्गमिमाः समधिशेरते ॥ ६८ ॥ उत्सङ्गशयनं सख्याः स्तननं गौरवं नमः । इतौमे गर्भिणोधर्मा बहवोऽप्यव दर्शिताः ॥६६॥
इल्मर्थः उभयत्त्र समानम् । तथा गर्भस्य अन्तर्वर्त्तिजलपूरस्य अन्यत्र कुक्षिखजीवस्य भरेण क्लान्ताः मन्यराः स्तनन्त्यः गर्जन्त्यः अन्यत्र क्लान्तिजनितशब्दविशेषं कुर्वत्यः इमा मेघपङ्क्तयः अचलस्य पर्वतस्य अधित्यका ऊर्द्ध भूमिः, उपत्यकाद्रेरामन्ना भूमिरुद्ध मधित्यका इत्यमरः । तस्या उत्तङ्कं मध्यभागम् अन्यत्र संख्या: क्रोडं समधिशेरते । अन्यत्र मेघपतिधर्मेषु गर्भिणधर्माणां बहूनां युगपदध्यासात् वैचित्रयातिशयः सहृदयहृदयहारौति भाव्यम् अलङ्कारय समासोक्तिरिति ॥ ८८ ॥
उक्तश्लोके गर्भिणोधर्मं दर्शयति उमाङ्गेति । चढ़ उक्रे लोके सख्या उतङ्गशयनं स्तननं गौरवं क्लम इति उक्तरूपा इमे बच्चत्रः मर्भिणोधर्माः दर्शिताः श्रारोपितत्वेनेति शेषः । यदि च स्तनितं गर्जितं मेघनिर्घोषे इत्याद्यमरोक्त्या स्वननशब्देन मेघगर्जितमेव बुध्यते तथापि शब्दमात्रार्थक स्तनधातुनिष्पवत्वेन स्तनन्त्य इति पदस्य गर्भिस्यास्तादृशेऽपि शब्दप्रयोगो युज्यते । अन्यच मनोरादिषु रणितप्रायं पक्षिषु च कूजितप्रभृति स्तनितर्माणितादि सुरते मेघादिषु गर्जितप्रमुखमिति वचनान्तरेण स्तमितशब्दस्य सुरतवाचकत्वमपि सिद्ध तस्मात् स्तनधातोः केवलं मेघमर्जितमेवार्थो न अपितु सामान्यशब्दमावमपि । ननु शब्दमात्त्रार्थकतायां सिहायामपि कथं स्तनत्य इति पदेन गर्भिण्या असाधारणशब्दविशेषस्य उपपत्तिरिति क्षेत्र, गर्भिच्या अन्येषाम् असाधारणधर्माणाम्