________________
प्रथम: परिच्छेदः। ५१ पद्मान्यकांशुनिष्ठाताः पीत्वा पावकविग्रषः । भूयो वमन्तीव गुरुगीर्णारुणरेणुभिः ॥ ६६ ॥ इति हृद्यमहृद्यन्तु निष्ठीवति बधूरिति । युगपन्नैकधर्माणामध्यासश्च स्मृतो यथा ॥ १७॥ गुरुगर्भभरल्लान्ताः स्तनन्या मेघपतयः ।
उक्तमर्थमुदाहरति पद्मानौति। पद्मानि अकांशुनिष्यताः सूर्यमयखनिक्षिप्ताः पावकविपुषः अग्निस्फुलिङ्गान् पौत्वा उदौर्णा अरुणा रेणवः परागाः यैः तादृशैः मुखैः विशेषणे तृतीया। भूयः पुनःपुनः वमन्तीव। सायंकालौनपवनासङ्गेन स्खलत्परागाणां पनानां वर्णनमिदम् । अत्र निष्ठूयतोहीर्णशब्दो दैहिककफादिनिक्षेपे शक्ती अपि सामान्यनिक्षेपरूपेऽर्थे लाक्षषिको सन्तौ सहृदयहृदयङ्गमता प्राप्ताविति समाधिरव्याहतः। वमन्ति इवेत्युत्प्रेक्षायामपि न ग्राम्यता प्रत्युत समाधिगुणयोगात् गुण एवेति पूर्वोक्तगौणवृत्तिपदस्य उत्प्रेक्षोपलक्षकत्वमवमन्तव्यम् ॥८६॥ ___ इति पूर्वोक्तं निष्ठातादिपदं हृद्यं गौणलक्षणयोगेन समाधिमत्त्वादिति भावः। बधूः निष्ठीवति कफादिकं त्यजतीति वाक्यन्तु अहृद्यं ग्राम्यतादोषकलुषिततया सहृदयानाम् अप्रियम् । तत्र नैकधर्माणां बहूनाम् अन्यधर्माणां युगपत् समकालमेव न तु कालभेदेन अन्यत्र अध्यास: समारोपश्च स्मृतः । तथाच एकस्य अन्यधर्मस्य अन्यस्मिन्, तथा बइनामपि अन्यधर्माणामन्यत्र समारोपः समाधिरिति फलितार्थः ॥ ८७ ॥
उक्तामर्थसुदाहरति गुर्विति। गुरवः महत्यः स्थूलकलेवरा