________________
काव्यादर्श
५०
निष्ठा तोद्गीर्णवान्तादिगौणवृत्ति व्यपाश्रयम् । अतिसुन्दरमन्यव ग्राम्यकक्षां विगाहते ॥ ८५ ॥
केन सह नारङ्गकस्य श्रपम्यभावः केनापि न प्रदर्शितः । केवलं खबुद्या उद्भावितः । अन्यच्छायायोनिः कविसमयप्रसिद्धोऽपि किञ्चित् वैचित्रप्रभावेन रचितः । यथा निजनयनप्रतिविम्बेरम्बुनि बहुशः प्रतारिता कापि । मीलोत्पलेऽपि विसृशति करमर्पयितुं कुसुमलावी इति पत्र नयननौलोत्पलयोः साम्यं कविप्रसिद्धमपि किञ्चिद्वैचित्रेण विरचितम् इत्याहुः । अन्यैस्तु शब्दगुणोऽपि समाधिरुक्तः स च आरोहावरोहक्रमरूप एवं आरोहस्तु अनुप्रासादिना वाचामुत्कर्षः, अवरोहस्तदसद्भावादपकर्षः तयोः क्रमः वैरस्यानावहो विन्यास: यथा चञ्चद्भुजभ्भ्रमितचण्डगदाभिघातसंचूर्णितोरुयुगलस्य सुयो धनस्य । स्यानावनद्दघन शोणितशोणपाणिरुत्तंसयिष्यति कचस्तव देवि ! भीमः ॥ इत्यत्र पादत्रये बन्धस्य गाढ़ता, चतुर्थ - पादे तु अपकर्षः सोऽपि तीव्रप्रयत्नोच्चाय्र्यतया न वैरस्यमावहतीति समाहितश्च ॥ ८४ ॥
समाधिं गौणलक्षणाक्रान्तं दर्शयति निष्ठप्रतेति । निष्ठतम् उद्गीर्णं वान्तम् इत्यादिपदं गौणौ या वृत्तिर्लक्षणा गुणयोगात् इति भावः सैव व्यपाश्रयः विशिष्टः श्राश्रयो यस्य तत् मुख्यार्थ - सदृशेऽर्थे प्रयुक्तमित्यर्थः अतिसुन्दरम् अतिमनोरमं तदेव समाधिस्थानमिति भावः । अन्यत्र तदभावे गौणवृत्त्याश्रयाभावे इत्यर्थः ग्राम्यकक्षां ग्राम्यतादोषकालुष्यं विगाहते लभते, तथाच मुख्यार्थे प्रयुक्तं निष्ठप्रतादिपदं ग्राम्यमेव लाक्षणिकेऽर्थे तु तादात्मप्रारोपात् गुणवदिति फलितार्थः ॥ ८.५ ॥