________________
प्रथमः परिच्छेदः ।
कुमुदानि निमौलन्ति कमलान्युन्मिषन्ति च । इति नेत्रक्रियाध्यासाल्लब्धा तद्दाचिनी श्रुतिः ॥६४॥
४८
सौमानुरोधिना लोकस्थितिमनुवर्त्तमानेन जनेन अन्यस्य अपरस्य अप्रकृतस्य यो धर्मः गुणक्रियादिः ततः तस्मात् अन्यत्र तद्भिद्ये प्रक्कृते इत्यर्थः यत्नेति अव्ययं यत् इत्यर्थः सम्यक् आधीयते आरोप्यते स समाधिः सम्यगाधानरूपत्वात् तदाख्यो गुण इत्यन्वयः । तथाच प्रकृते वस्तुनि अप्रकृतस्य धर्मारोपो लोकसिद्धिः सहृदयचमत्कारको गुणः समाधिरिति फलितार्थः धर्म इत्यनेन धर्मिण: समारोपे न अयं गुणस्तत्रातिशयोक्तिरलङ्कार एवेति सूच्यते ॥ ८३ ॥
1
यथा कुमुदानि उत्पलानि निमीलन्ति कमलानि उन्मिषन्ति विकाशन्ते च प्रभातवर्णनमिदं दिवाकुमुदनिमौलनस्य कमलोन्मेषस्य च कविसमयप्रसिडत्वात् । अत्र निमीलनोन्मेषौ अप्रकृतस्य नेत्रस्य धर्मी कुमुदकमलयोः सङ्कोचविकाशतादात्मान आरोपितौ सादृश्यातिशयमहिम्ना लोकसिद्दौ च । एतदेव स्वयं निर्दिशति इतीति । इति उक्ताभ्यां नेत्रक्रियाभ्यां निमीलनोन्मेषाभ्यां सह अध्यासात् अभवत्वे इति शेषः सङ्कोचविकाशाभ्यां तद्दाचिनौ तयोः निमौलनोन्मेषयोः वाचिनी प्रतिपादिका श्रुतिः निमौलन्तीत्यादि तत्तत्क्रियावाचकः शब्द इत्यर्थः लब्धा प्राप्ता । श्रयञ्च श्रर्थगत एव प्रकृतेऽर्थे अप्रक्कृतस्यार्थस्यैव आरोपादिति । अन्ये तु समाधिरर्थदृष्टिरूपोऽर्थगुण एव स च द्विविधः अयोनिरन्यच्छायायोनिच । तत्र अयोनिरर्थः कविप्रसिद्धिमन्तरेणापि स्वकपोलकल्पितः यथा सद्योमुण्डितमत्तहूनचिवुक प्रस्पषिनारङ्गकमिति श्रत्र नचिव
५