________________
काव्यादर्श
अल्पं निर्मितमाकाशमनालोच्यैव वेधसा । इदमेवंविधं भावि भवत्याः स्तनजृम्भणम् ॥ ६१ ॥ इदमत्युक्तिरित्युक्तमेतत् गौड़ोपलालितम्। '. प्रस्थानं प्राक् प्रणौतन्तु सारमन्यस्य वर्त्मनः ॥६२॥ अन्यधर्मस्ततोऽन्यव लोकसीमानुरोधिना। सम्यगाधीयते यत्र स समाधिः स्मृतो यथा ॥३॥
सिद्धमपि देवावासस्येव आराध्यकौर्तनमारोपितमिति कान्तिः विपर्ययोऽवगन्तव्यः ॥ ८ ॥
वर्णनायां निरुक्तकान्तेर्वैपरीत्यं वर्णयति अल्पमिति । भवत्याः स्तनयोजृम्भणं वृहिः एवंविधं व्यापकमित्यर्थः भावि भविषति इदम् अनालोचैव अविचार्यैव वेधसा विधाना आकाशम् अल्पं निर्मितम्। अत्र विधातुरनालोचनपूर्विका आकाशनिर्मितिरतिशयोनिविजृम्भितैव न तु लोकप्रसिद्धेति विभाव्यम् ॥१॥ - इदम् ईदृशं काव्यम् अत्युक्तिः इति उक्तं कथितं कविभिः इति शेषः । उक्तञ्च भोजराजेन यथा, लौकिकार्थमतिक्रम्य प्रस्थानं यत्र वर्ण्यते। तदत्युक्तिरिति प्रोक्तं गौड़ानां मनसो मुदे। इति। एतत् पद्यं गौड़ेः कविभिः उपलालितं हृद्यतया गृही. तम्। प्राक् पूर्वं कथितं प्रस्थानं लोकसिहवस्तुवर्णनरूपं प्रकष्ट स्थानं स्थितिर्मयादा इति यावत् अन्यस्य वर्त्मन: वैदर्भीयस्य मार्गस्य सारं मनोहरम् । अयमेव गौड़वैदर्भयोर्भेद इति भावः ॥८ ॥
समाधि सोदाहरणं निरूपयति अन्यधर्म इत्यादि। लोक