________________
.
प्रथमः परिच्छेदः।
लोकातीत इवात्यर्थमध्यारोप्य विवक्षितः । योऽर्थस्तेनातितुष्यन्ति विदग्धा नेतरे जनाः ॥६॥ देवधिषणामिवाराध्यमद्यप्रभृति नो गृहम् । युष्मत्यादरजःपातधौतनिःशेषकिल्विषम् ॥६० ॥
उत्कर्षस्य आख्यानेन कथनेन संस्कृतं शोभितं सत् लोकयात्रानुवर्तिनः लौकिकाचारपरायणस्य सर्वस्य जनस्य कान्तं मनोरमं भवति। कान्तत्वमेव गुणपदार्थः न तु लोकसिद्धवस्तुवर्णनमान कान्तिः तथात्वे सूर्योऽस्तं याति गौः शेते इत्यादेरपि कान्तिमत्त्वात् काव्यत्वापत्तिः गुणालङ्कारादिमत्त्वस्येव काव्यत्वादिति सुधीभिर्विभाव्यम् ॥ ८८ ॥ ___निरुक्तकान्ती गौड़ानां वैमत्यमाह लोकेति। इवशब्दोऽत्र अभ्यर्थकः । अत्यर्थम् अतिशयेन लोकातीत: अलौकिकः अपि योऽत्यर्थः अध्यारोप्य कल्पयित्वा विवक्षितः वक्तुमिच्छया प्रयुक्त इत्यर्थः तेन विदग्धाः सहृदयाभिमानिन इति सोल्लुण्ठनोक्तिः । गौड़ीया इत्यर्थः अतितुष्यन्ति तेषां प्रौढोक्तिप्रियत्वात् इति भावः । इतरे जनाः वैदर्भीयाः कवयः न तेषां यथावहर्णनप्रियत्वादिति भावः। सुतरामुक्तलक्षणा कान्तिौड़ेः न अङ्गीक्रियते इति फलितार्थः ॥ ८८ ॥ ___ वार्तायां निरुक्तकान्तेर्वैपरौत्यं वर्णयति। देवेति अद्यप्रभृति नोऽस्माकं ग्राहं युष्माकं पादरजःपातेन चरणरेणुपातेन धौतं निःशेषं समस्तं किल्विषं पातकं यस्य तथाभूतं सत् देवधिणं दैवतास्थानमिव आराध्यं सेवनीयं भविष्यति इति शेषः । अत्र महात्मनां चरणरजःस्पर्श एहस्य पावनत्वं लोक