SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ काव्यादर्श ४६ गृहाणि नाम तान्येव तपोराशिर्भवादृशः । सम्भावयति यान्येव पावनैः पाहमांशुभिः ॥८॥ अनयोरनवद्याङ्गि ! स्तनयोजृम्भमाणयोः । अवकाशो न पर्याप्तस्तव बाहुलतान्तरे ॥ ८७॥ इति सम्भाव्यमेवैतत् विशेषाख्यानसंस्कृतम् । कान्तं भवति सर्वस्य लोकयावानुवर्तिनः ॥८८॥ ७ ॥ सम्भवात् प्रबन्धस्य रामादिवत् प्रवर्तितव्यं न रावणादिवत् इत्युपदेशपर्यवसायित्वानुपपत्तेरित्याहुः ॥ ८५ ॥ वार्ताभिधाने कान्तिं दर्शयति गृहाणौति। तानि एव गृहाणि गृहपदवाच्यानि प्रशंसनीयानि गृहाणि इत्यर्थः, सपोराशिः भवादृशः पावनैः पादपांशुभिः चरणरजोभिः यानि सम्भावयति संशोधयति। पत्र ग्रहपदेन लक्षणया प्रशस्तग्रह महात्माजनपदस्पर्शेन च स्थानस्य प्राशस्त्यञ्च लोकसिद्दमेव प्रतीयत इति अवधेयम् ॥ ८६ ॥ वर्णनायां कान्तिं दर्शयति अनयोरिति। हे अनवद्याङ्गि सुन्दरि ! जुम्भमाणयोः वईमानयोः अनयोः स्तनयोः तव बाहुलतान्तरे वक्षसि अवकाशः स्थानं न पर्याप्तः न प्रभूतः स्तनयोरतिपौनोबततया वक्षसश्च क्षुद्रतया यथेष्ट स्थानालाभात् इति भावः। अत्र स्तनयोरतिपौनत्ववर्णनं लोकसिद्धमिति विभावनौयम् ॥ ८७॥ ____ उक्तयोः पद्ययोः कान्तिं सङ्घटयति इतीति। इति पूर्वोक्ताश्लोकहयप्रतिपाद्यं वस्तु सम्भाव्यमेव भवितुमर्हति एव न तु प्रौढ़ोक्त्या कल्पनीयम्। एतच्च विशेषाख्यानेन विशेषस्य
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy