________________
प्रथम: परिच्छेदः ।
४५
४५
पयोधरतटोत्सङ्गलग्नसन्ध्यातपांशुका । कस्य कामातुरं चेतो वारुणी न करिष्यति॥८॥ कान्तं सर्वजगत्कान्तं लौकिकार्थानतिक्रमात् । तच्च वार्ताभिधानेषु वर्णनाखपि दृश्यते ॥८५ ॥
प्रत्र उदाहरति यथेति। पयोधरो मेघ एव स्तनः स एव तट: प्रदेशः तस्य उत्सङ्गे लग्नं सन्ध्यातपः सायंकालौनसौरकिरण एव अंशुकं यस्याः तादृशी वारुणी कस्य चेत: कामातुरं न करिष्यति इत्यन्वयः । अत्र पूर्वाः समासबाहुल्यमपि पूर्ववत् न श्रोटबुद्धिमाकलयति परं श्रोत्रमनोहरत्वेन चमत्कारातिशयमुग्धां करोतीति विभावनौयम् ॥ ८४ ॥
कान्तिगुणं निरूपयति कान्तमिति । लौकिकस्य लोकसिहस्य अर्थस्य अनतिक्रमात् अत्यागात् तन्मात्रस्यैव वर्णनात् इत्यर्थः सर्वजगतां कान्तं साधारणमनोरममित्यर्थः पद्य कान्तं कान्तिगुणविशिष्टं तथाच सहृदयमनोरञ्जकलोकसिहवस्तुवर्णनमेव कान्तिगुण इति। उक्तञ्च क्रमदौखरेण यथा, वर्णनात्युतिशून्या या सा कान्तिरभिधीयते इति। इयमर्थगा विना अर्थानुसन्धानमस्याः प्रतीतिविरहात्। तच्च कान्तिमत् वाक्यं वार्ता अनामयप्रियालापः अनामयप्रियालापो वर्तिर्वाता च कथ्यते इति वचनात् तस्या अभिधानेषु कथनेषु तथा वर्णनासु वस्तुखरूपमात्रनिरूपणेषु दृश्यते अनामयप्रियालापेषु वर्णनासु च यथावत् सत्यनिरूपणस्यैव औचित्यात् अयथावर्णने लौकिकव्यवहारविसंवादः स्यादिति भावः । केचित्तु वार्ताभिधानेषु इतिहासवर्णनेषु, इतिहासानां यथावहर्णस्य एव पौचित्यात् अयथावर्णने असत्यताप्रतिभामनेन विनेयानां प्रवृत्त्य