________________
४४
काव्यादर्भ
अस्तमस्तकपर्यास्तसमस्ताकीशुसंस्तरा। पौनस्तनस्थिताताम्रकमवस्त्रेव वारुणी ॥ २ ॥ इति पद्येऽपि पौरस्त्या बघ्नन्त्योजखिनौरिरः । अन्ये त्वनाकुलं हृद्यमिच्छन्त्योजो गिरां यथा ॥३॥ क्वचित् मिश्रणेन च क्वचित् उच्चावचप्रकारं बहुविधं तत् आख्यायिकादिषु गद्यग्रन्येषु दृश्यं लक्षणीयम् । गौड़ीयानान्तु पद्यप्रन्थेऽपि सूर्यशतकादौ समासबाहुल्यं पूर्वमुक्तमवधेयम् इति ॥८१॥
गौड़ाभिमतं पद्यऽपि समासभूयस्त्वप्रकारं दर्शयति अस्तमिति। अस्तमस्तके अस्ताचलशृङ्गे पर्यस्ताः पतिताः समस्ता ये अकांशवः सूर्यकिरणा: तैः संस्तरः आच्छादनं यस्थाः तादृशी वारुणी वरुणाधिष्ठिता दिगिति शेषः पीनस्तने स्थितम् पातामम् ईषत् लोहितं सायंकालौनसौरकिरणस्य तथात्वात् इति भावः कमें कमनीयं वस्त्रं यस्याः तथाभूता कामिनीव राजते इति शेषः। अत्र हयोः अप्यर्थयोः समासबाहुल्यम् ॥ ८२॥
पौरस्त्याः गौड़वासिनः इति पूर्वोक्तप्रकारे पद्यऽपि भोजखिनौः समासबहुलाः गिरः बध्नन्ति । अन्ये तु पण्डिताः गिरां वाचाम् अनाकुलम् अत्र भावनिर्देशः, अनाकुलत्वमित्यर्थः दौर्घसमासादीनां झटिति प्रतीतेरन्तरायत्वात् तद्राहित्यरूपमिति यावत् हृद्य सहृदयमनोहारि च ओजः इच्छन्ति तथा च समासस्य दीर्घत्वम् अल्पत्वम् अभावो वा तु श्रोतृणां बुद्धेरमाकुलत्वसम्पादनेन तन्मनोहारित्वम् ओजःपदार्थ इति निष्कर्षः ॥ ८३॥ .