SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ प्रथम प्रथमः परिच्छेदः। भोजः समासभूयस्त्वमेतद् गद्यस्य जीवितम्। पोऽप्यदाक्षिणात्यानामिदमेकं परायणम् ॥८०॥ तत् गुरूणां लघूनाच्च बाहुल्याल्पत्वमिश्रणैः । उच्चावचप्रकारं तत् दृश्यमाख्यायिकादिषु ॥८॥ पोजोगुणं निरूपयति भोज इति। समासः इयोबहनां वा पदानाम् एकीकरणं तस्य भूयस्त्वं बाहुल्यं दीर्घता इत्यर्थः बहुभिः पदैः समास इति यावत् प्रोजः एतत् गद्यस्य पूर्वोक्तस्य प्रबन्धविशेषस्य जीवितं प्राणभूतम् । इदच उभयोरपि मार्गयोः सामान्यम् । अदाक्षिणात्यानां दाक्षिणात्यव्यतिरिक्तानां गौड़ानाम् इत्यर्थः पद्य ऽपि इदम् एकम् अहितीयं परायणं परमा गतिः तेषां बन्धनाढताप्रियत्वादिति भावः । इदच शब्दगतं समासस्य शब्दमावगतत्वात्। केचित्तु भोजः प्रौढ़ि: सा च पञ्चविधा यथा पदार्थे वाक्यरचनं वाक्यार्थे च पदाभिधा। प्रौढिक्ससमासौ च साभिप्रायत्वमस्य चेति। तत्र पदार्थे वाक्यरचनं यथा चन्द्र इत्येकस्मिन् पदार्थे वक्तव्ये अनेर्नयन समुत्थं ज्योतिरिति वाक्यरचनम्। वाक्यार्थे पदाभिया यथा निदाघशीतलहिमकालोणशरौरा सुकुमारी वरयोषिदिति वाक्यार्थे वक्तव्ये वरवर्णिनौति पदाभिधानम् । एवमेकस्य वाक्यार्थस्य किञ्चिविशेषाभिधित्सया बहुवाक्यैरभिधानं व्यासः बहुवाक्यप्रतिपाद्यस्य एकवाक्येन प्रतिपादनं समासः, एतत् चतुर्विधं प्रौढ़िरूपमोज: शब्दगुणः, साभिप्रायन्तु अर्थगुण इत्याहुः ॥ ८० ॥ तत् समासभूयस्त्वरूपम् ओजः गुरूणां महाप्राणाक्षराणां लघूनाम् अल्पप्राणाक्षराणाञ्च बाहुल्येन क्वचित् अल्पत्वेन
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy