________________
४२
. काव्यादर्श .
इति त्यागस्य वाक्येऽस्मिन्नुल्कर्षः साधु लक्ष्यते। अनेनैव पथान्यत्र समानन्यायमूह्यताम् ॥ ७८॥ श्नाध्यैर्विशेषणैर्युतामुदारं कैश्चिदिप्यते । यथा लीलाम्बुजक्रीड़ासरोहेमाङ्गदादयः ॥ ७६ ॥
नास्तीति सूचितं सहदयानाम् अतिशयेन चमत्कारोति इदयमिति ॥ ७७॥ ... इति उक्तरूपे त्यागस्य दानस्य अस्मिन् वाक्ये उत्कर्षः राजकीयदानस्य इति शेषः साधुः सम्यक् लक्ष्यते प्रतीयते । साधु इत्यत्र खस्विति पाठे खलु निचितमित्यर्थः । अन्यत्रापि पद्ये अनेन एव पथा रीत्या समानः सदृशः न्यायः नियमः यत्र तत् यथा तथा ऊह्यतां विभाव्यताम् एताम् एव रौतिमव.. लम्बा पद्य विरच्यतामित्यर्थः ॥ ७८ ॥ - मतभेदं दर्शयति माध्यैरिति। माध्यैः विशेष्वस्थ उत्कर्षाधायकत्वेन सामाजिकमनोरमैः विशेषणैः बहुवचनात् एकस्य इयोः वा विशेषणयोः सद्भावे न अयं गुण इति सूचितम्। युक्त समन्वितं वाक्यम् उदारम् औदार्यगुणयुक्तं कैश्चित् कविभिरिष्यते खमते तु अपुष्टार्थतादोषपरिहारेण परिकरालङ्कारस्य कीर्तनेन च अस्य ग्रहणात् न पृथगुतिरिति भावः। यथा लीलाम्बुजक्रीड़ासरो हेमाङ्गदादयः । लीलाम्बुज इत्यत्र लीलेति विशेषणन तदुपयोगिनो वर्णाकारसौरभ्यातिशयस्य, क्रीड़ासर इति कथिते तत्र क्रीड़ार्थककमलकैरवादिजनितशोभादिकस्य तथा हेमाङ्गदेत्युक्त अङ्गदस्य हेमनिर्मितत्वेन सुदृश्यत्वादिकस्य प्रतीतिः सहृदयमनोहारिणीति विभावनीया ॥ ७ ॥