________________
प्रथमः परिच्छेदः।
न हि प्रतीतिः सुभगा शब्दन्यायविलयिनी ॥७५॥ उत्कर्षवान् गुणः कश्चित् यस्मिन्नुक्ते प्रतीयते। तद्दाराह्वयं तेन सनाथा काव्यपद्धतिः ॥ ७६ ॥ अर्थिनां कृपणा दृष्टिस्त्वन्मुखे पतिता सकृत् । तदवस्था पुनर्देव ! नान्यस्य मुखमीक्षते ॥ ७७॥
रपि वैदर्भीगौद्योः मार्गयोः रौतिविशेषयोः कवय इति शेषः ईदृशं पूर्वोक्तरूपं नेयत्वयुक्त वाक्यं न बहु मन्यन्ते न आद्रियन्ते। हि यतः शब्दन्यायः शाब्दबोधनियमः तस्य विलचिनी व्यतिक्रमसाधनी प्रतीतिः अध्याहारादिकष्टकल्पनेन ज्ञानमित्यर्थः न सुभगा न साध्वोत्यर्थः ॥ ७५ ॥
'औदार्य गुणं निरूपयति उत्कर्षति । यस्मिन् वाक्ये उक्त कथिते सति कश्चित् उत्कर्षवान् वर्णनीयस्य विषयस्य उत्कर्षप्रतिपादको लोकोत्तरचमत्कारकः । गुणः धर्मविशेषः प्रतीयते बुध्यते तत् उदाराह्वयम्। औदार्यगुणयुक्त तेन छदारत्वगुणेन काव्यपद्धतिः गौड़वैदर्भीया काव्यरौतिः सनाथा पूर्णा उत्कर्षवतीति भावः । इदञ्च अर्थगतम् । शब्दगतन्तु विकटवलक्षणं विकटत्वञ्च पदानां नृत्यत्प्रायत्वं यथा खचरणविनिविष्टः नपुरैः नर्तकीनां झणिति रणितमासीत् तत्र चित्रं कलच्च इति विश्वनाथः ॥ ७६ ॥
. उदारत्वस्य उदाहरणं दर्शयति अर्थिनामिति। हे देव ! अर्थिनां कपणा दौमा दृष्टिः त्वन्मुखे असक्वत् वारंवारं पतिता पुनः किन्तु तदवस्था दौनेत्यर्थः अन्यस्य मुखं न ईक्षते। एतेन राजः एतादृशौ प्रभूतदानशक्तियत् दावन्तरोपसर्पणमर्थिनां