________________
५८
काव्यादर्श
समासातिशयोक्षा हेतुः सूमो लवः क्रमः । . प्रयो रसवदूर्जखि पयायोक्तं समाहितम् ॥ ५ ॥ उदात्तापहृतिश्लेषविशेषास्तुल्ययोगिता। विरोधाप्रस्तुतस्तोत्रे व्याजस्तुतिनिदर्शने ॥ ६ ॥ सहोक्तिः परिवृत्त्याशीः सौर्णमथ भाविकम् । इति वाचामलकारा दर्शिता: पूर्वसूरिभिः ॥ ७॥ नानावस्थं पदार्थानां रूपं साक्षात् विवृण्वती। खभावोक्तिश्च' जातिश्चेत्याद्या सालङ्कतिर्यथा ॥८॥ खभावोक्तिः, दीपकच्च आवृतिरावृत्तिश्च ते दीपकाकृती, समासः समासोक्तिः, अतिशयः अतिशयोक्तिः, समाहितं समाधिः, अप्रस्तुतस्तोत्रम् अप्रस्तुतप्रशंसा, इति उक्तप्रकारेण नामतो निर्दिष्टाः खभावोत्यादिभाविकपर्यन्ताः पञ्चविंशत्संख्यकाः वानां वाक्यानाम् अलङ्काराः पूर्वमूरिभिः प्राचीनकविभिः दर्शिताः, वाचाम् इत्यनेन वाक्यगता एवैते अलङ्कारा इति सूचितम् ॥ ४ ॥ ५ ॥ ६ ॥ ७ ॥ . खभावोक्तिं निरूपयति नानेति। स्वभावोतिश्च जातिश्च इति नामहयवती पाद्या प्रथमा सर्वाग्रा वा यथार्थनिरूपणसारत्वादिति भावः। पदार्थानां जातिगुणक्रियाद्रव्याणां नाना अवस्था दशा यस्य तादृशं रूपं प्रकारं साक्षात् प्रत्यक्षमिव वितखती प्रदर्शयन्ती सा प्रसिद्धा अलङ्गतिः अलङ्कारः, तथाच पदार्थानां नानावस्थवरूपस्य वैचित्रेषण वर्णनं स्वभावोक्तिरिति निष्कर्षः। एकरूपाया अवस्थायाः कीर्तने न अयमलङ्कारः वैचित्रवाभावात् वैचित्रांस्य एव अलङ्कारत्वात्