________________
द्वितीयः परिच्छ ेदः ।
तुण्डेराताम्रकुटिलैः पचैर्हरितकोमलैः । विवर्णराजिभिः कण्ठैरेते मञ्जुगिरः शुकाः ॥ ६ ॥ कलक्वणितगर्भेण कण्ठेनाघूर्णितेक्षणः ।
पूट
पारावतः परिभ्रम्य रिरंसुचुम्बति प्रियाम् ॥ १० ॥ बभ्रन्नङ्गेषु रोमाञ्चं कुर्वन् मनसि निर्वृतिम् । नेवे चामौलयन्नष प्रियास्पर्शः प्रवर्त्तते ॥ ११ ॥
इति सूच्यते । यथा अम्भोदमुदितं दृष्ट्वा मुदा नृत्यन्ति वर्हिण इत्यत्र वस्तुस्वरूपनिरूपणेऽपि वैचित्रयाभावात् न अलङ्कारता । उक्तञ्च प्रकाशकारेण यथा, स्वभावोक्तिस्तु डिम्भादे: स्वक्रियारूपवर्णनम् इति । यथेति परोक्तस्य उदाहरणस्य सूचकम् ॥८॥
प्रथमं जाती उदाहरति तुरिति । एते गिरः मधुरप्रलापिनः शकाः आताम्राणि आलोहितानि कुटिलानि च तैः तुण्डः मुखेः, हरिताः पालाशवर्णाः कोमलाच तैः पतेः तथा त्रयाणां वर्णानां हरितरक्तधूमराणां राजयः रेखाः येषु तादृशैः कण्ठैः सर्वत्र विशेषणे तृतीया । उपलक्षिता इत्यर्थः । अत्र शुकजातैः तादृशतुण्डत्वादिकम् असाधारणधर्मः वर्णनावैचित्रेण साचादिव प्रतीयते इति जातिगता स्वभावोक्तिः ॥ ॥
क्रियायामुदाहरति कलेति । कलं मधुरं क्वणितं गर्भे यस्य तादृशेन कण्ठ ेन विशेषणे तृतीया, पारावतः आघूर्णिते ईक्षणे नेत्रे यस्य तथाभूतः रिरंसुः रन्तुमिच्छुः सन् परिभ्रम्य प्रियां चुम्बति । पारावतानामुक्तविधचुम्बनं स्वाभाविकमिति क्रियागता स्वभावोक्तिरिति अवगन्तव्यम् ॥ १० ॥
गुणोदाहरणं दर्शयति बध्नन्निति । एष प्रियाया: स्पर्शः